________________
२५८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
आदितो धातोः 'परयोः क्तयोरादिरिट् न' स्यात् । मित्रः, मित्रवान् ॥७१॥
नवा भावाऽऽरम्भे ।४४७२॥ आदितो धातोर्भावाऽऽरम्भार्थयोः 'क्तयोरादिरिट् वा न' स्यात् । मित्रम्, मेदितम् प्रमित्रः, प्रमिन्नवान, प्रमेदितः, प्रमेदितवान् ॥७२॥
शकः कर्मणि ।४।४७३॥ शकेः कर्मणि 'क्तयोरादिरिट् वा न' स्यात् । शक्तः, शकितो वा घटः कर्तुम् ॥७३॥ _णो दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्तम् ।४।४७४॥ 'दमादीनां णौ तान्तानामेते वा निपात्यन्ते' । दान्तः, दमितः; शान्तः, शमितः; पूर्णः, पूरितः; दस्तः, दासितः; स्पष्टः, स्पाशितः; छत्रः, छादितः; ज्ञप्तः, ज्ञापितः ।।७४॥ ___ श्वस-जप-वम-रुष-त्वर-संघुषाऽऽस्वनाऽमः ।४।४७५॥ एभ्यः ‘क्तयोरादिरिट् वा न' स्यात् । श्वस्तः, श्वसितः; विश्वस्तवान्, विश्वसितवान् । जप्तः, जप्तवान्। जपितः, जपितवान् । वान्तः, वान्तवान्। वमितः, वमितवान् । रुष्टः, रुष्टवान्; रुषितः, रुषितवान् । तूर्णः, तूर्णवान; त्वरितः, त्वरितवान् । संघुष्टी, संघुषिती दम्यौ; संघुटवान्, संघुषितवान् । आस्वान्तः, आस्वनितः; आस्वान्तवान्, आस्वनितवान् । अभ्यान्तः, अभ्यान्तवान्; अभ्यमितः, अभ्यमितवान् ॥७५॥
हः केश-लोम-विस्मय-प्रतिघाते ।४।४७६॥ हषः केशापर्येषु 'क्तयोरादिरिट् वा न स्यात् । हथः हृषिताः केशाः; हृष्टं हृषितं लोमभिः; हटो हषितश्चैत्रः; हटाः हषिताः दन्ताः ॥७६॥
अपचितः ।४।४७७॥