________________
२५२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
धातोः परस्य सादेस्तादेश्चाऽशित 'आदिरिद् स्यात्, न तु त्रोणाद्योः ' । लविष्यति, लविता । स्तादीति किम् ? भूयात् । अशित इति किम् ? आस्से । अत्रोणादेरिति किम् ? शस्त्रम् वत्सः हस्तः ||३२||
तेग्रहादिभ्यः | ४|४|३३॥
एभ्य एव परस्य स्ताद्यशितः 'तेरादिरिट्' स्यात् । निगृहीतिः, अपस्निहितिः । ग्रहादिभ्य इति किम् ? शान्तिः ||३३||
गृहणोऽपरोक्षायां दीर्घः । ४|४|३४||
'ग्रहेर्यो विहित इट् तस्य दीर्घः स्यात्, न तु परोक्षायाम् । ग्रहीता अपरोक्षायामिति किम् ? जगृहिव ||३४||
वृतो नवाऽनाशी:- सिच्परस्मै च | ४|४|३५||
वृभ्यामुदन्तेभ्यश्च परस्येटो 'दीर्घो वा स्यात्, न तु परोक्षाऽऽशिषोः, सिचि च परस्मैपदे' । प्रावरीता, प्रावरिता; वरीता, वरिता; तितरीषति, तितरिषति । परोक्षाऽऽदिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः ॥३५॥
इटू सिजाशिषोरात्मने | ४|४|३६||
वृतः परयोरात्मनेपदविषये 'सिजाशिषोरादिरिट् वा स्यात् । प्रावृत, प्रावरिष्ट; अवृत, अवरीष्ट; आस्तीर्ट, आस्तरिष्ट प्रावृषीष्ट, प्रावरिषीष्ट; वृषीष्ट, वरिषीष्ट; आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत् ||३६|| संयोगाद् ऋतः | ४|४|३७||
'धातोः संयोगात् परो य ऋत् तदन्तात् परयोरात्मनेपदविषयसिजाशिषोरादिरिद् वा' स्यात् । अस्मरिषाताम् अस्मृषाताम् स्मरिषीष्ट, स्मृषीष्ट । संयोगादिति किम् ? अकृत ॥३७॥
धूगौदितः |४|४|३८||