________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
भू-स्वपोरदुतौ |४|१|७० ॥ 'भू-स्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुती' स्याताम् । बभूव, सुष्वाप ॥७०॥
ज्या व्ये- व्यधि-व्यचि-व्ययेरिः |४|१|७१ ॥
एषां परोक्षायां द्वित्वे 'पूर्वस्य इः' स्यात् । जिज्यौ, संविव्याय विव्याध, विव्याच, विव्यथे ॥ ७१ ॥
२०७
"
यजादि-वश् वचः सस्वरान्तस्था वृत् |४|१|७२ ॥
-
'यजादेर्वश्-वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ उ ऋरूपा प्रत्यासत्त्या स्यात्' । इयाज, उवाय, उवाश, उवाच ॥७२॥
न वयो यू |४|१| ७३ ॥
'वेगो वयो य् परोक्षायां य्वृत् न' स्यात् । ऊयुः ॥७३॥ वेरयः |४|१|७४ |
'वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां य्वृन' स्यात् । ववैौ । अय इति किम् ? उवाय ||७४ |
'ज्यो वेगश्च यपि य्वृन' स्यात् । प्रज्याय, प्रवाय ॥ ७६ ॥
व्यः |४|१|७७ ॥
अविति वा |४|१|७५ ॥
'वेगोऽयन्तस्याऽविति परोक्षायां वृद्वा न स्यात् । ववुः, ऊवुः ॥७५॥ ज्यश्च यपि |४|१|७६ ॥
'व्यो यपि य्वृन्न' स्यात् । प्रव्याय ॥७७॥
संपर्वा |४|१|७८ ॥
आभ्यां परस्य 'व्यो यपि य्वृद्वा न स्यात् । संव्याय, संवीय परिव्याय,