________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
____१९७
१९७ अर्हम् ॥ अथ चतुर्थोऽध्यायः (प्रथमः पादः)॥
द्विर्धातुः परोक्षा-डे, प्राक् तु स्वरे स्वरविधेः ।४।१।१॥ परोक्षायां डे च परे 'धातुर्द्विः' स्यात् , 'स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव' । पपाच, अचकमत । धातुरिति किम् ? प्राशिश्रियत् । प्रागिति किम् ? चक्रतुः । स्वर इति किम् ? जेधीयते । स्वरविधेरिति किम् ? शुशाव । प्राक् तु स्वरे स्वरविधेरिति आद्विवचनमधिकारः ॥१॥
आयोऽश एकस्वरः ।४।१॥२॥ 'अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षा-डेपरे द्विः' स्यात् । जजागार, अचीकाणत्, अचकाणत; अचीकरत् ॥२॥
सन्-यश्च ।४।१।३॥ सन्नन्तस्य यन्तस्य चा-'ऽऽद्य एकस्वरोंऽशो द्विः' स्यात् । तितिक्षते, पापच्यते ॥३॥
स्वराऽऽदेर्द्वितीयः ।४।१४॥ स्वरादेई युक्तिमाजो 'द्वितीयोऽश एकस्वरो द्विः' स्यात् । अटिटिषति, अशाश्यते । प्राक् तु स्वरे स्वरविधेरित्येव- आटिटत् ॥४॥
न ब-द-नं संयोगाऽऽदिः ।४।१।५।। स्वरादेर्धातोदितीयस्यांशस्यैकस्वरस्य 'व-द-नाः संयोगस्याऽऽद्या न द्विः' स्युः । उब्जिजिषति, अट्टिटिषते, उन्दिदिषति । संयोगादिरिति किम् ? प्राणिणिषति ॥५॥
अयि र ४१६॥