________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१८९
सिजयतन्याम् ।।४५३॥ अद्यतन्यां परस्यां धातोः परः 'सिच् नित्यम्' स्यात् । अनैषीत् ॥५३।।
स्मृश-मृश-कृष-तृप-दृपो वा ३३४५४॥ एभ्योऽधतन्याम् 'सिज् वा' स्यात् । अस्पाक्षीत्, अस्पार्टात, अस्पृक्षत्; अम्राक्षीत्, अमाीत्, अमृक्षत्; अक्राक्षीत्, अकात्,ि अकृक्षत्; अत्राप्सीत्, अतार्सीत्, अतृपतः अद्राप्सीत्, अदासीत्, अदृपत् ॥५४॥
ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् ॥३॥४॥५५॥ हशिडन्तानाम्युपान्त्याददृशोऽनिटोऽथतन्याम् ‘सक् स्यात् । अधुक्षत्, अविक्षत् । ह-शिट इति किम् ? अमैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत् ॥५५॥
श्लिषः ।।४५६॥ श्लिषोऽनिटोऽद्यतन्याम् ‘सक्' स्यात् । आश्लिक्षत् कन्यां मैत्रः । अनिट इत्येव-अश्लेषीत् ॥५६॥
नाऽसत्त्वाऽऽश्लेषे ३।४।५७॥ श्लिषोऽप्राण्याश्लेषार्थात् 'सक् न' स्यात् । उपाश्लिषत् जतु च काष्ठं च । असत्त्वाऽऽश्लेष इति किम् ? व्यत्यश्विक्षन्त मिथुनानि ॥५७॥
णि-त्रि-द्रु-सु-कमः कर्तरि ३४५८॥ ण्यन्तात् श्यादिभ्यश्च कर्तर्यपतन्याम् ':' स्यात् । अचीकरत, अशिश्रियत्, अदुद्रुवत, असुमुवत, अचकमत । कर्तरीति किम् ? अकारयिषातां कटौ मैत्रेण ॥५८॥
ट्पे-वेर्वा ३४५९॥ आभ्यां कर्तर्यवतन्याम् 'डो वा' स्यात् । अदघत, अधातः अशिश्वियत्,