________________
-
१७४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
निह्नवे ज्ञः ।३।३।६८॥ निह्नवः- अपलापः, तद्वृत्तेजः 'कर्तर्यात्मनेपदम्' स्यात् । शतमपजानीते ॥
सं-प्रतेरस्मृतौ ।३।३।६९॥ स्मृतेरन्यार्थात् संप्रतिभ्यां पराज्ज्ञः 'कर्तर्यात्मनेपदम्' स्यात् । शतं संजानीते, शतं प्रतिजानीते । अस्मृताविति किम् ? मातुः संजानाति ॥६९।।
अननोः सनः ।३।३७०॥ सन्नन्ताज्ज्ञः 'कर्तर्यात्मनेपदम्' स्यात्, न त्वनोः परात् । धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ॥७०।।
श्रुवोऽनाङ्-प्रतेः ।३।३७१॥ सन्नन्ताच्छृणोतेः 'कर्तर्यात्मनेपदम्' स्यात्, न त्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनामतेरिति किम् ? आशुश्रूषति प्रतिशुश्रूषति ॥७१॥
स्मृ-दृशः ।३॥३॥७२॥ आभ्यां सन्नन्ताभ्याम् ‘कर्तर्यात्मनेपदम्' स्यात् । सुस्मूर्षते, दिदृक्षते ॥७२॥
शको जिज्ञासायाम् ।३।३।७३॥ शको ज्ञानानुसंहितार्थात् सन्नन्तात् 'कर्तर्यात्मनेपदम्' स्यात् । विद्याः शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ॥७३॥
प्राग्वत् ॥३॥३७॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् 'कर्तर्यात्मनेपदम्' स्यात् । शिशयिषते, अश्वेन संचिचरिषते ॥७४॥
आमः कृगः ।३।३।७५॥ आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव 'कर्तर्यात्मनेपदम्' स्यात्, भवति न भवति चेति विधिनिषेधावतिदिश्यते । ईहाञ्चक्रे,