________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
१४७
वर्चस्कादिष्ववस्करादयः ।३।२।४८॥ 'एष्वर्थेष्वेते कृतशषसाधुत्तरपदाः साधवः' स्युः । अवस्करोऽनमलम्, अवकरोऽन्यः; अपस्करो रथाङ्गम्, अपकरोऽन्यः ॥४८॥
परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूडू ।३।२।४९॥ परतः- विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे 'पुम्वत्' स्यात्, न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्य इति किम् ? गृहिणीनेत्रः, कल्याणीमाता । अनूङिति किम् ? करभोरुमार्यः ॥४९॥
क्यङ्-मानि-पित्तद्धिते ।३।२।५०॥ क्यङि मानिनि चोत्तरपदे पित्तद्धिते च परतः स्त्रीलिङ्गोऽनू 'पुम्वत्' स्यात् ।
उपचार श्येतायते, दर्शनीयमानी अयमस्याः; अजध्यं यूथम् ॥५०॥
जातिश्च णि-तद्धितय-स्वरे ।३।२॥५१॥ अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते 'पुम्वत्' स्याद्, अनूङ् । पटयति, एत्यः, भावत्कम् । जाति - दारयः, गार्यः । तद्धितेति किम् ? हस्तिनीयति, हस्तिन्यः ॥५१॥
एयेऽग्नायी ।३।२५२॥ एयप्रत्ययेऽग्नाय्येव परतः स्त्री 'पुम्वत्' स्यात् । आग्नेयः । पूर्वेण सिद्ध नियमार्थमिदम् । श्यैनेयः ॥५२॥
नाऽप्-प्रियाऽऽदौ ।३।२।५३॥ अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री 'पुम्वत्र' स्यात् । कल्याणीपञ्चमा रात्रयः, कल्याणीप्रियः । अप्रियादाविति किम् ? कल्याणपञ्चमीकः पक्षः ॥५३॥