________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
डत्यतु संख्यावत् 191१1३९॥ डत्यन्तम् अत्वन्तं च 'संख्याकार्यभाक्' स्यात् । कतिकः, यावत्कः ॥३९॥
बहु-गणं भेदे 1१।१।४०॥ बहु-गणशब्दो भेदवृत्ती 'सयावत् स्याताम् । बहुकः, गणकः । भेद इति किम् ? वैपुल्ये संघे च मा भूत् ॥४०॥
क-समासेऽध्यर्द्धः ।११११४१॥ अध्यर्द्धशब्द: के प्रत्यये समासे च विधेये 'संख्यावत्' स्यात् । अध्यर्द्धकम्, अध्यर्द्धशूर्पम् ॥४१॥
अर्द्धपूर्वपदः पूरणः 1919॥४२॥ अर्द्धपूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समासे च कार्ये ‘संख्यावत्' स्यात् । अर्द्धपञ्चमकम्, अर्द्धपञ्चमशूर्पम् ॥४२॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन
लघुवृत्ती प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ।।१19॥
हरिरिव बलिबन्धकर,-स्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव, जयति श्रीमूलराजनृपः ॥१॥