________________
किरातार्जुनीयम्
सं०व्या०-हे धर्मराज युधिष्ठिर ! राज्ञा यथाकालं पात्रानुरूपमवस्थानुरूपं च कोपः कार्यः । निग्रहानुग्रहसमर्थस्य विपत्विनाशकस्य च पुरुषस्य वशे सर्वे प्राणिनः स्वयमेव भवन्ति । अस्मिन् संसारे दृश्यते यत् क्रोधशून्यः पुरुषः मित्रैः सम्मानं न प्राप्नोति शत्रवश्च तस्मान्न न विभ्यति । भवत्सदृशः यः पुरुषः यथाकालं न क्रुध्यति सः प्रसन्नः भवतु अप्रसन्नः वा भवतु तं कोऽपि न गणयति । अतः भवता शत्रुषु क्रोधः कार्यः ।
९४
स०―न वन्ध्यः अवन्ध्य: ( नञ् समास ), अवन्ध्यः कोपः यस्य सः अवन्ध्यकोपः तस्य अत्रन्ध्यकोपस्य ( बहु० ) । न मर्षः अमर्षः - (नत्र समास ), अमर्षेण शून्य अमर्षशून्यः तेन ( तृ० तत्पु० ) । जातं हार्द यस्य सः जातहार्दः (जातस्नेहः) तेन जातहार्देन (बहु० ) ।
व्या०-१ — विहन्तुः वि + न् + तृच् + षष्ठी, एकवचन । वश्याः -वशं गच्छन्ति ये ते; वश + यत् । हृदयस्य कर्म हार्दम्, हृदय + अण् ।
टि०- ( १ ) जिसका क्रोध व्यर्थ नहीं होता = जो क्रोध आने पर शत्रुओं को दण्ड दे सकता है ( २ ) सभी प्राणी उस व्यक्ति के वश में हो जाते हैं जो (क) क्रोध आने पर शत्रुओं को दण्डित करने में समर्थ होता है और जो ( ख ) अपनी और दूसरों की विपत्तियों को दूर करने में समर्थ होता है । ( ३ ) जो क्रोध के समय भी क्रोध नहीं करता उसके मित्र उसका सम्मान नहीं करते और शत्रु उससे डरते नहीं । ऐसा व्यक्ति मित्र हो अथवा शत्रु हो - इसका कोई महत्व नहीं है । ( ४ ) नकार और जकार की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास |
घण्टापथ - अवन्ध्येति । अवन्ध्यः कोपो यस्य तस्य अवन्ध्यकोपस्य । अत एव आपदां विहन्तुः निग्रहानुग्रहसमर्थस्येत्यर्थः । पुंस इति शेषः । देहिनो जन्तवः स्वयमेव वश्याः वशङ्गता भवन्ति । ' वशं गतः' इति यत्प्रत्ययः । अतस्त्वया कोपिना भवितव्यमित्यर्थः । व्यतिरेके त्वनिष्टमाचष्टे - अमर्षशून्येन निःकोपेन जन्तुना । कन्यया शोक इतिवत् 'हेतौ' इति तृतीया । हृदयस्य कर्म हार्द स्नेहः । 'प्रेमाना प्रियता हार्द प्रेम स्नेह:' इत्यमरः । युवादित्वादन् । 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेश: ] जातहार्देन जातस्नेहेन सता जनस्य आदरः न । विद्विषा