________________
प्रथम सर्गः
पीताः इति । अत्र लोपशब्दार्थमाह कैयट : --- गम्यार्थस्याप्रयोग एव लोपोऽभिमतः । 'विभका भ्रातरः' इत्यत्र च धनस्य यद् विभक्तत्वं तद् भ्रातृषूपचरितम् | 'पीतोदका गावः' इत्यत्रापि उदकस्य पीतत्व गोष्वारोप्यते इति । तद्वत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते । एतेन' 'वनाय पीतप्रतिवद्ध त्वाम्', 'पातुं न प्रथमं व्यत्रस्यति जलं युष्मास्त्रपीतेषु या' एवमादयो व्याख्याताः । अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कर्तरि क्तः । यथा 'आशितः कर्ता' इत्यादौ । यथाहुः – “घातोरर्थान्तरे वृतेर्धात्वर्थेनोपसङग्रहात् । प्रसिद्धेरविवज्ञातः कर्मणोऽकर्मिका क्रिया ॥ " इति । द्वैतवने द्वैताख्तपोवने । यद्वा द्वे इते गते यस्मात् तद् द्वीतम् । द्वीतमेव द्वैतम् | तच्च तद्वनञ्च तस्मिन् । शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । 'ढलदन्तान् सतम्याः संज्ञायाम्' इत्यलुक्। 'गवियुधिभ्यां स्थिरः' इति षत्वम् । समाययौ सम्प्राप्तवान् । अत्र 'वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकधैवावृत्या वृत्त्यनुप्रासो नामालङ्कारः । अस्मिन् सर्गे वंशस्थवृत्तम् । तल्लक्षणम् -'जतौ तु वंशस्थमुदीरितं जरौ' इति ॥ १ ॥ कृतप्रणामस्य महीं महोभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥२॥
अन्वयः--कृतप्रणामस्य सपत्नेन जितां महीं महीभुजे निवेदयिष्यतः तस्य मनः न विव्यथे । हि हितैषिणः मृषा प्रियं प्रवक्तु न इच्छन्ति ।
शब्दार्थः - कृत प्रणामस्य = कर लिया गया है ( युधिष्ठिर को ) नमस्कार ( प्रणाम ) जिसके द्वारा ऐसे, ( युधिष्ठिर को ) नमस्कार कर लेने वाले । सपत्नेन = शत्रु ( दुर्योधन ) के द्वारा । जितां = जीती हुई, वश में की हुई, अपने अधिकार में ( अपने अधीन ) की हुई । महीं = पृथ्वी ( राज्य ) को, ( पृथ्वी के विषय में ) । महीभुजे = राजा ( युधिष्ठिर ) के लिए । निवेदॉयष्यतः = निवेदन करते हुए, कहते हुए। तस्य = उम्र ( किरात ) का । मनः न विव्यथे = मन (चित्त) व्यथित ( दुःखित, भयभीत, विचलित ) नहीं हुआ। हि = क्योंकि । हितैषिणः = हित ( भलाई, कल्याण, मङ्गल )