________________
१०४
किरातार्जुनीयम् थे, वही (आप) अब प्रचुर कुशों से परिव्यात (भरी हई) अपरिष्कृत भूमि पर शयन करके शृगालियों के अशुभ (अमङ्गलसूचक) शब्दों (बोलियों) के द्वारा नींद छोड़ते हैं (नागते हैं)।
संन्या-अमिन् श्लोके युधिष्ठिरस्य दुर्दशामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दीपनं कर्तुमिच्छति । हे रानन् । पूर्वस्मिन् काले यदा भवान् राज्यसिंहासनारूढः आसीत् तदा निशायां बहुमूल्यशध्यायां शयानः भवान् प्रातः स्तुतिगायनरूपैः मङ्गलशन्दै निद्रां परित्यजति स्म । किन्तु अधुना कुशबहुलायां अपरिष्कृतायां वनभूमौ सुप्तः भवान् प्रातः अशुभैः शृगालीशन्दैः निद्रा परित्यजति । एतादृशीं विपत्तिमनुभवन्नपि भवान् प्रतीकाररहितः इति महदाश्चर्यम् । वयं तु भवतः क्लेशेन अत्य तं व्यथिताः भवामः ।
स०-महत् धनं (मूल्यं) यस्य तत् महाधनम् (बहु०)। स्तुतयश्च गीतयश्च इति स्तुतिगीतयः (द्वन्द्व) अथवा-स्तुतीनां गीतयः इति स्तुतिगीतयः-(षष्ठी तत्पु०), स्तुतिगीतयः एव मङ्गलानि इति स्तुतिगीतिमङ्गलानि तैः स्तुतिगीतिमङ्गलैः (कर्मघा०)। अदभ्राः दर्भाः यत्याः सा अदभ्रदर्भा ताम् अदभ्रदर्भाम् (बहु०)। न शिवानि अशिवानि तै: अशिवैः (नज समास)। शिवानां रुतानि शिवास्तानि तैः शिवास्तैः (षष्ठी तत्सु०)। ___व्या०-अधिरूढ़ः अघि+रह + क्त | शयनम्-(आसनम् , आन्तरणम्) शी+ ल्युट् । विवोध्यसे-वि+बुध+णिच् + लट, मध्यमपुरुष, एकवचन, भूत अर्थ में लट् । अधिशय्य-अधि+शी+क्त्वा-ल्यप् , 'अघिशीस्थानां कर्म' सूत्र से अधि उपसर्ग के योग में 'शी धातु के अधिकरण 'स्थली' की कर्म संशा हुई और द्वितीया विभक्ति का प्रयोग हुआ। जहासि-हा+लट मध्यमपुरुष, एकवचन । टि०-वृत्यनुप्रास, छेकानुप्रास, विषम अलंकार।
घण्टापथ-पुरेति । यस्त्वं महाधनं बहुमूल्यं श्रेष्ठम् । 'महाधनं महामूल्ये' इति विश्वः । शयनं शय्याम् अधिरूढ़ः सन् । स्तुतयो गीतयश्च ता एव मङ्गलानि तैः स्तुतिगीतिमंगलैः फरणभूतैः पुरा विवोध्यसे। वैतालिकैरिति शेषः ।