________________
[ ]
[श्रीविचाररत्नाकरः आयरियएण भणितो सीसो दिवसे दिवसे पडिलेहेइ जाहे न पेच्छइ ताहे न पडिलेहेइ एवं तस्स अपडिलेहंतस्स संसत्तो उवही ण सक्को सोहेउं तेण तित्थयराणा भग्गा, तं च दव्वं अपरिभोगं जायं, एवं अण्णो भणिओ तेण सव्वकयं तित्थयराणा य कया, दव्वं च परिभोगं जायं ॥४०७।। इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥१६॥
अथ दण्डकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराज्जीवविराधना भवतीत्यक्षराणि च लिख्यन्ते
मोक्खट्ठा नाणाई, तणू तयट्ठा लट्ठी।
दिट्ठो जहोवयारो, कारणतक्कारणेसु तहा ॥१०६२॥ मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः शरीरमिष्यते, तदर्थाय च यष्टिः शरीरार्थायेत्यर्थः यतः शरीरं यष्ट्याधुपकरणेन प्रतिपाल्यते, अत्र च 'कारणतत्कारणेखूपचारो' दृष्टः, यथा घृतं वर्षत्यन्तरिक्षं इति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति ॥१०६२।।
किञ्च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यद् ज्ञानादीनुपकरोति तदेवोपकरणमुच्यते । एतदेवाह
जं जुज्जइ उवगरणे उवगरणं, तं सि होइ उवगरणं ।
अरेगं अहिगरणं, अजतो अजतं परिहरंतो ॥१०६३॥ यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः? अयतोऽयत्नवतः अयतनया परिहरन्-प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति, इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तते इति ॥१०६३ ॥ किञ्च
उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं ।
उवहिं धारये भिक्खू , पगासपडिलेहणं ॥१०६४॥ एवं गुणविशिष्टमुपधिं धारयेत् भिक्षुः । किंविशिष्टामित्यत आह–'पगासपडिलेहणं' इति प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवङ्गणविशिष्टां धारयेत् , एतदुक्तं भवति–यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते, न तु महार्घमूल्याच्चौरभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारणीया इति ॥१०६४॥
१. ओ.नि.मू. १०९४तः ११०५ गा. प्रत्य. ।
D:\ratan.pm5\5th proof