________________
श्रीविचाररत्नाकरे मध्यभागे नवमस्तरङः]
[१८९ इति एकस्मिन् समये अनेके सिद्धाः अनेकसिद्धाः १५, अनेके चैकस्मिन् समये सिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः । आह-ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषा भेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम् ? उच्यते-सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति, 'विशेषपरिज्ञानार्थं च विशेषशास्त्रप्रयासः' । इति नन्दीसूत्रवृत्तौ १९२ प्रतौ १०४ । १०५ पत्रे ॥२॥
निगोदादिजीवानामपि मतिश्रुतज्ञानानन्तांशोऽप्रावृतस्तिष्ठतीत्यभिप्रायो लिख्यते
सव्वजीवाणं पिणं अक्खरस्स अणंतभागो निच्चुग्घाडिओ चिट्ठइ, जइ पुण सो वि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसराणं' इति । वत्तिर्यथा-'सव्वजीवाणं पि' इत्यादि. सर्वजीवानामपि णमिति वाक्यालङ्कारे, अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि, ततो मतिज्ञानस्यापि अनन्तमो भागो नित्योद्घाटितः सर्वदैवाप्रावृत्तस्तिष्ठिति, सोऽपि चानन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमानं तत् पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानद्धिनिद्रोदयभावेऽपि नावियते तथा जीवस्वाभाव्यात् । तथा चाह–'जइ पुण' इत्यादि, यदि पुनः सोऽपि अनन्तो भाग आवियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् , जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानद्धिनिद्रोदयभावे चैतन्यमात्रमप्याव्रियते तहि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्यते न चैतद् दृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्कारात् । अत्रैव दृष्टान्तमाह'सुट्ठ वि' इत्यादि सुष्ठ्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्यचन्द्रमसो.कान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात् , एवमनन्तानन्तैरपि ज्ञानावरणपरमाणुभिरेकैकस्यात्मप्रदेशस्यावेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति । यतो यत् सर्वजघन्यं तन्मतिश्रतात्मकं. अत: सिद्धोऽक्षरस्यानन्तमो भागो नित्योदघाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते, इति स्थितिम् । इति नन्दीसूत्रवृत्तौ १९२ प्रतौ १६१ पत्रे ॥३॥
ननु महावीरस्येयन्तः श्रावका अभूवंस्तेषु मध्ये केन जिनप्रतिमा कारिता कस्य वा जिनप्रतिमाऽभूत् इत्यादिभिः, तथा इयत्सु श्रावकेषु केनोपधानानि व्यूढानि कुत्र वा शास्त्रे उपधानान्युक्तानि इत्यादिभिश्च, स्वकपोलकल्पितदुर्विकल्पैरनल्पयन्ति संसारं
१. नन्दी./१३६सू. मध्ये।
D:\ratan.pm5\5th proof