________________
श्रीविचाररत्नाकरे प्राच्यतटे
॥ एकादशस्तरङ्गः ॥ कर्कशकुतर्कसङ्करदुर्धरतिमिरौघदिनकराकारम् । विश्वाधारं जिनमतमभिमतदं नौमि गुरुभक्त्या ॥१॥ अथ विपाकाङ्गविचारा लिख्यन्ते
केचिन्मिथ्यात्विकृतं सर्व व्यर्थमेव मन्वते, तच्चायौक्तिकम् , मिथ्यात्विनाऽपि सुबाहुकुमारेण प्राग्भवे मुनिदानप्रभावात् संसार: परिध्वस्तो मनुजायुश्च निबद्धमिति श्रूयते । तथा हि
तते णं से सुमुहे गाहावती सुदत्तं अणगारंएज्जमाणं पासति पासित्ता हट्ठतुढे आसणातो अब्भुढेति अब्भुट्टित्ता पायपीठातो पच्चोरुहति पच्चोरुहित्ता पाउयाओ अ ओमुयइ ओमुइत्ता एगसाडियं उत्तरासंगं करेइ करित्ता सुदत्तं अणगारं सत्तट्ठपयाई अणुगच्छति अणुगच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति णमंसति णमंसित्ता जेणेव भत्तघरेतणेव उवागच्छति उवगच्छित्ता सयहत्थेणं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामि त्ति कट्ट हट्टतुटे । तते णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धेणं ३ तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिते समाणे संसारे परित्तीकते मणुस्साउए निबद्धे ॥ इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीविपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ॥१॥
केचिच्च पौर्णमासीममावास्यां (च) विहाय त्रयोदशीचतुर्दश्योः पौषधं कुर्वन्ति, अपरे च पर्वतिथावेव पौषधोऽनुष्ठेयो, नान्यदेति वदन्ति । ते चोभयेऽपि मिथ्यावादिनो द्रष्टव्याः । “चाउद्दसट्ठमुद्दिट्टपुण्णिमासिणीसु"[ ] इत्यत्र चतुर्दशीपौर्णमास्योः, चतुर्दश्यमावास्ययोरेव(वा)आराध्यत्वेनोक्तत्वात् , सुबाहुकुमारेण पौषधत्रयस्य कृतत्वाच्च । तत्सूत्रं चेदम्
१. विपाक.श्रु.२/अ.१/३७सू. ।