________________
श्रीविचाररत्नाकरे प्राच्यतटे अष्टमस्तरङ्गः]
[११५ तते णं सा काली अज्जा रयणावलितवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छति उवागच्छित्ता अज्जचंदणं अज्जं वंदंति नमसंति बहूहिं कत्थं जाव अप्पाणं भावेमाणी विहरइ [अ.द./८/१/४८-४९-५०]इति । वृत्तिर्यथा-'रयणावलि' त्ति रत्नावली-आभरणविशेषः । रत्नावलीव रत्नावली, यथाहि-रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति पुनर्मध्यदेशे स्थूलविशिष्टमण्यल्ड कृता च भवति, एवं यत्तपः पट्टादावुपदर्शमानमिममाकारं धारयति तद्रत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि चत्वारि कृत्वा शक्तिद्वयेन स्थाप्यन्ते, अथवा क्ति त्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठे शून्यं विधाय शेषेष्वष्टास अष्ट षष्ठानि रचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत् षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात्, एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवा अष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्टकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानि, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, पुनरप्यष्ट षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति । प्रथमायां परिपाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सञ्जाता यस्मिस्तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते पारणकरङ ग्रहगाथा
"पढमंमि सव्वकामं, पारणयं बितियए विगइवज्जं ।
तइयंमि अलेवाडं, आयंबिलमो चउत्थंमि" ॥१॥ पारणक इति गम्यते, वाचनान्तरे"पढमंमि सव्वगुणिए पारणकं''इति दृश्यते । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील
श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि
श्रीअन्तगडविचारनामा अष्टमस्तरङ्गः।८।।
D:\ratan.pm5\5th proof