________________
श्रीविचाररत्नाकरे प्राच्यतटे सप्तमस्तरङ्गः]
[१११ त्ति सततोपयोगप्रतिजागरणेन रक्षति, 'सोहइ' त्ति शोभयति गुरुपूजापुरस्सरपारणककरणेन शोधयति वा निरतिचारतया, 'तीरेइ'त्ति पूर्णेऽपि कालावधावनुबन्धात्यागात्, कीर्त्तयति तत्समाप्ताविदञ्चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात्, आराधयति एभिरेव प्रकारैः संपूर्णौनिष्ठां नयतीति । 'दोच्चं'ति द्वितीयां व्रतप्रतिमाम्, इदञ्चास्याः स्वरूपम्
"दंसणपडिमाजुत्तो, पालंतोणुव्वए निरड्यारे ।
अणुकंपाइगुणजुओ, जीवो इह होइ वयपडिमा" ॥२॥[उपा.सू./१-१५व.] 'तच्चं'ति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम्
"वरदसणवयजुत्तो, सामाइयं कुणइ जो उ संझासु ।
उक्कोसेण तिमासं, एसा सामाइयप्पडिमा" ॥३॥[ उपा.सू./१-१५वृ.] 'चउत्थंति चतुर्थी पौषधप्रतिमामेवंस्वरूपम्
"पुव्वोदियपडिमजुओ, जो कुणइ पोसहं तु संपुन्नं ।
अट्ठमिचउद्दसाइसु, चउरो मासा चउत्थीं सा" ॥४॥[ उपा.सू./१-१५वृ.] 'पंचमं' ति पञ्चमी प्रतिमाप्रतिमां कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपञ्चास्याः
"सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसु, पडिमं ठाएगराईयं ।५।।[ उपा.सू./१-१५व.] असिणाणवियडभोई, मउलिकडो दिवसबंभयारी य।
राई परिमाणकडो, पडिमावज्जेसु दियहेसु"।६।[उपा.सू./१-१५व.] 'असिणाणवियडभोई' अस्नानोऽरात्रिभोजी चेत्यर्थः । 'मउडिकडो'त्ति मुत्कलकच्छ इत्यर्थः ।
"झायइ पडिमाइ ठिओ, तिलोयपुज्जे जिणे जियकसाए ।
नियदोसपच्चणीयं, अन्नं वा पंच जा मासा"।७।।[ उपा.सू./१-१५वृ.] 'छटुं' ति षष्ठी अब्रह्मवर्जनप्रतिमाम्, एतत्स्वरूपञ्चैवम्
"पुव्वोदियगुणजुत्तो, विसेसओ मोहणिज्जवज्जो य । वज्जइ अंबभमेगंतओ य राई पि थिरचित्तो ।८।।[ उपा.सू./१-१५वृ.] सिंगारकहाविरओ, इत्थीए समं रहम्मि नो ठाइ। चयइ य अइप्पसंगं, तहा विभूसं च उक्कोसं ।९।।[ उपा.सू./१-१५वृ.]
D:\ratan.pm5\5th proof