________________
१०]
[श्रीविचाररत्नाकरः त्ति अप्रतिलब्धो-ऽसञ्जातः "विपुलकुलसमुब्भवेणं' इत्यादौ णंकारा वाक्यालङ्कारे, निरुपहतं शरीरं यस्य स तथा, दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चेन्द्रियश्चेति समास, एवमित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः सः तथा, तत्रोत्थानं-चेष्टाविशेषः, बलं-शारीरं, वीर्य-जीवप्रभवं, पुरुषकार:-अभिमानविशेषः, पराक्रमः-स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन, क्षमसे क्रोधाभावेन, तितिक्षसे दैन्यानवलम्बनेन, अध्यासयसि अविचलितकायतया, एकाथिकानि चैतानि पदानि ।इति ज्ञाताधर्मकथाङ्गे प्रथमश्रुतस्कन्धे प्रथमाध्ययने ९८ प्रतौ ४४ पत्रे।।१॥
_ 'कार्यं वितारेन्दुबलेऽपि पुष्ये , दीक्षां विवाहं च विना विदध्यात् ।। इत्यादि । पुष्यमाहात्म्यं न केवलं ज्योति:शास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपि तथा हि
१ 'गहिएसुरायवरसासणेसु महया उक्किट्ठसीहणाय जावरवेणं पक्खुभितमहासमुद्दरवभूतं पिव मेइणिं करेमाणा एगदिसिं जाव वाणियगा पोयणेसु दुरूढा, ततो पुस्समाणवो वक्कमुदाहु हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्ठिताई कल्लाणाई पडिहयाइं सव्वपावाइं जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो''इति । वृत्तिर्यथागृहीते षुराजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते । 'तओ पुस्समाणवो वक्कमुदाहु' त्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्मेत्यर्थः, तदेवाह-सर्वेषामेव भो ! भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि-सर्वविघ्नाः 'जुत्तो' त्ति युक्तः पुष्यो नक्षत्रविशेषश्चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरम् । यदाह"अपि द्वादशमे चन्द्रे , पुष्यः सर्वार्थसाधकः" [ ]इति । मागधेन तदुपन्यस्तं, विजयो मुहूर्तस्त्रिंशतो मुहूर्तानां मध्यात् । अयं देशकाल:-एष प्रस्तावो गमनस्येति गम्यते ।इति श्रीज्ञाताष्टमाध्ययने ९८ प्रतौ ६८ पत्रे ॥२॥
तीर्थङ्करजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिः सा तु अशास्त्रीयैव संभाव्यते, यतोमलिजनस्यानुजो भ्राता श्रूयते । तथा हि
२'तते णं सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्ते ति । जेणेव मल्लदिन्ने कुमारे तेणेव जाव एयमाणत्तियं पच्चप्पिणंति । तए णं मल्लदिन्ने
१. ज्ञाता./१-८-८६/सू. । २. ज्ञाता./१-८-९१/सू. ।
D:\ratan.pm5\5th proof