________________
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः]
[९३ जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साइं तित्थे अणुसज्जिस्सइ, तहा णं जंबुद्दीवे णं दीवे भारहे वासे आगमेस्साणं चरमतित्थगरस्स केवइयं कालं तित्थे अणुसज्जिस्सइ ? । गोयमा ! जावइएणं उसभस्स अहओ कोसलियस्स जिणपरियाए एवइयाइं संखेज्जाइं आगमेस्साणं चरमतित्थगरस्स तित्थे अणुसज्जिस्सइ''इति । वृत्तिर्य था-'कइ ण' मित्यादि 'कस्स कहिं कालियसुअस्स वोच्छेए पण्णत्ते'त्ति कस्य जिनस्य संबन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे कालिकश्रुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि ण'मित्यादि इह च कालिकस्य व्यवच्छेदे पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधान तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीति कृत्वा कृतमिति । 'मज्झिमएसु सत्तसु' त्ति अनेन 'कस्स कहिं' इत्यस्योत्तरं अवसेयम्, तथा हि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजनतीर्थस्यसुविधि-शीतलजनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपि षड् जिनाः षट् च जिनानन्तराणि वाच्यानि । केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः ।
"चउभागो १ चउभागो२, तिणि य चउभाग३ पलियमेगं च ४।
तिण्णेव य चउभागा५, चउत्थभागो६ य चउभागो७" ॥१॥[ ]इति । 'एत्थ णं'ति एतेषु प्रज्ञापकेनोपदर्श्यमानेषु जिनान्तरेषुकालिकश्रुत्यवच्छेदः प्रज्ञप्तः । दृष्टिवादोक्षया त्वाह-'सव्वत्थ वि णं वोच्छिण्णे दिट्ठिवाए'त्ति सर्वेष्वपि जिनान्तरेषु न केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नोदृष्टिवादइति । व्यवच्छेदाधिकारदेवेदमाह-जंबडीवे ण' मित्यादि । 'देवाणुप्पियाणं' ति युष्माकं संबन्धि 'अत्थेगइयाणं संखेज्जं कालं' ति पश्चानुपूर्व्यापार्श्वनाथदीनां संख्यातं कालम् । 'अत्थेगतियाणं असंखेज्जं कालं' तिऋषभदीनां 'आगमेस्साणं' ति आगमिष्यतांभविष्यतांमहापद्मदीनां जिनानां 'कोसलियस्स'त्तिकोशल्देशजातस्य 'जिणपरियाए'त्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति ।इति श्रीभगवतीविंशतितमशतकाष्टमोद्देशके ८०६ प्रतौ ५१४ पत्रे ॥१७॥
प्रतिमारिपव: प्रसह्य जिनप्रतिमास्वीकारिता अपि ताः शाश्वत्य एव तथा कल्पतया च देवैरेव नमस्करणीया इति प्रलपन्ति, तच्चोभयमप्येतस्मिन् सूत्रे चारणर्षिभिर्नमस्कृतत्वेन 'इहं चेइयाइं वंदइ' इत्यनेन च निरस्तं द्रष्टव्यम् । तथाहि
D:\ratan.pm5\5th proof