________________
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः]
[७९ 'किरिय'त्ति कर्म सातवेदनीयमित्यर्थः । 'कज्जइ'त्ति क्रियते भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्तिवीतरागोऽपि हि सक्रियत्वात् सातवेद्यं कर्म बध्नातीति भावः । 'से' त्ति ईर्यापथक्रिया 'पढमसमयबद्धपुट्ठ'त्ति (प्रथमसमये) बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये ततपुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीणा-अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता-उदयमपनीता, किमुक्तं भवति? वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च सम्भवतीत्येवं व्याख्यातं, तृतीये तु निर्जीणा, ततश्च 'सेयकाले'त्ति एष्यत्काले 'अकम्मं वावि' त्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्णं कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति ‘अत्तत्तासंवुडस्से'त्यादिना चेदमुक्तं-यदि संयतोऽपि साश्रवः कर्म बध्नाति तदा सुतामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयार्थतोऽधो निमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात् कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्ध्ववगमनसामर्थ्यादुपनीतमवसेयम् ।इति भगवतीतृतीयशतकतृतीयोद्देशके ८०६ पत्रौ १३७ पत्रे ॥६॥
ननु अष्टमीचतुर्दश्यादौ वेलावृद्धिहानी किं निबन्धने ? इत्याशङ्कानिराचिकीर्षया लिख्यते
१'कम्हा णं भंते ! लवणसमुद्दे चम्दसट्टमुद्दिट्ठपुण्णिमासिणिसु अइरेगं वड्डइ वा हायइ वा जहा जीवाभिगमे लवणसमुद्दवत्तवया णेयव्वा, जाव लोयट्ठिई, जण्णं लवणसमुद्दे जंबुद्दीवं दीवं णो उप्पीलति । णो चेव णं एगोदगं करेइ (लोयट्टिई) लोगाणुभावे सेवं भंते ! भंते ! जाव विहरइत्ति । वृत्तिर्यथा-'भंते'त्ति इत्यादि । 'अतिरेगं'ति तिथ्यन्तापेक्षया अधिकतरमित्यर्थः । लवणसमुद्दवत्तव्वया ने यव्व'त्तिजीवाभिगमोक्ता, कियडूरं यावदित्याह-'जाव लोयट्ठिई' इत्यादि । सा चैवमर्थतः कस्माद्भदन्त !लवणसमुद्रश्चतुर्दश्यादिष्वपि अतिरेकेण वर्द्धते हीयते वा ? | इह प्रश्ने उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजन
१. भग./श.३/उ.३/१८३ सू. ।
D:\ratan.pm5\5th proof