________________
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः]
[७५ बहोर्लोकस्यापरिभवनीयाः, 'आसवे' इत्यादि, क्रियाः कायिक्यादिकाः अधिकरणंगन्त्रीयन्त्रकादि । 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिन । 'असहेज्जे'त्यादि अविद्यमानं साहाय्यं-परसाहायकं, अत्यन्तसमर्थत्वाद्येषां ते असहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेन असहाय्या-आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसहायकमपेक्षन्ते स्वयमेव तत्प्रतिघातसमर्थत्वात्, जिनशासनात्यन्तभावितत्वाच्चेति, तत्र देवा-वैमानिकाः। 'असुर'त्ति असुरकुमारा:नाग'त्तिनागकु मारा:उभयेऽप्यमीभवनपर्तिवशेषाः, 'सुवण्ण'त्ति सद्वर्णा ज्योतिष्का:यक्ष-राक्षस-किन्नर-किम्पुरुषा:-व्यन्तविशेषाः 'गरुल'त्ति गरुडध्वजा: सुवर्णकुमारा:-भवनपतिवशेषा,गन्धर्वा महोरगाश्चव्यन्तविशेषाः 'अणतिक्क-मणिज्ज'त्ति अनतिक्रमणीया-अचालनीयाः 'लद्धट्ठ'त्ति अर्थश्रवणात् 'गहियट्ठ'त्ति अर्थावधारणात् 'पुच्छियट्ठ'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहिय?'त्ति प्रश्नितार्थस्याभिगमनात् 'विणिच्छियट्ठ'त्ति ऐदम्पर्यार्थस्योपलम्भात्, अत एव 'अट्ठिमिंजपेम्माणुरागरत्ता' अस्थीनि च कीकसानि, मिजा न तन्मध्यवर्तिधातुरस्थिमिजास्ताः प्रेमाशुगेणसर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिागेण रक्ता इव रक्ता येषां ते तथा, अथवा अस्थिमिञासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसे' इत्यादि, अयमिति प्राकृतत्वादिदं 'आउसो'त्ति आयुष्मन् इति पुत्रा दोमन्त्रणं 'सेसे'त्ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति । 'उसियफलिह'त्ति उच्छ्रितं-उन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छितस्फटिकाः मौनीन्द्रप्रवचना-वाप्त्या परितष्टमानसा इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुःउच्छ्रितो-ऽर्गलास्थानादपनीयोर्वीकृतो न तिरश्चीनः । कपाटपश्चाद्भागादपनीत इत्यर्थः परिघोऽर्गला येषां ते उच्छ्रितपरिघाः । अथवा उच्छ्रितो-गृहद्वारादपगतः परिघो येषां ते उच्छ्रितपरिघाः । औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुअदुवारे'त्ति अप्रावृतद्वारा: कपाटदिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाखण्डिकादिभ्यो बिभ्यति शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भावः इति वृद्धव्याख्या,अन्ये त्वाहुःभिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः । 'चियत्तंतेउरघरप्पवेसा' 'चियत्तो' त्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रा
D:\ratan.pm5\5th proof