________________
श्रीविचाररत्नाकरे प्राच्यतटे चतुर्थस्तरङ्गः ]
[ ६३
पुंसेति पञ्चमः ५। एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा - 'आगासगयं' ति आकाशगतं-व्योमवर्त्ति आकाशकं वा प्रकाशकमित्यर्थः, चक्रधर्मचक्रमिति षष्ठः ६। एवं आकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७| आकाशकेप्रकाशके श्वेतवरचामरे प्रकीर्णके इत्यर्थः इत्यष्टमः ८। 'आगासफालियामय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ । 'आगासगओ'त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः 'कुडभि'त्ति लघुपताकाः संभाव्यन्ते तत्सहस्त्रैः परिमण्डितश्चासावभिामश्च - अतिरमणीयः इति विग्रहः 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वजः इति विग्रहः इन्द्रत्वसूचको ध्वज इति वा 'पुरओ'त्ति जिनस्याग्रतो गच्छतीति दशमः १०। 'चिट्ठति वा निसीयंति व 'त्ति तिष्ठन्तिगतिनिवृत्त्या निषीदन्ति- उपविशन्ति 'तक्खणा चेव' त्ति तत्क्षणमेवाकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं स चासौ पुष्पपल्लवसमाकुलश्च इतिविग्रहः पल्लवा - अ कुराः सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादश: ११ । 'ईसि' त्ति ईषत् - अल्पं 'पिट्टओ' त्ति पृष्ठतः पश्चाद्भागे ‘मउडट्ठाणंमि’त्ति मस्तकप्रदेशे तेजोमण्डलं- प्रभापटलमिति द्वादशः १२। बहुसमरमणीय भूमिभाग इति त्रयोदशः १३ | 'अहोसिर'त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४ । ऋतवोऽविपरीताः कथमित्याह - सुखस्पर्शा भवन्तीति पञ्चदश: १५ । योजनं यावत्क्षेत्रशुद्धिः संवर्त्तकवातेनेति षोडशः १६ । 'जुत्तफुसिएण 'त्ति उचितबिन्दुनिपातेन 'निहयरयरेणुयं'ति वातोत्खातमाकाशवर्त्तिरजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः १७। जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना - ऊर्ध्वमुखेन दशार्द्धवर्णेन - पञ्चवर्णेन जानुनोरुत्सेधस्य - उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रपुष्पोचारः - पुष्पप्रकर इत्यष्टादश: १८ । तथा 'कालागुरुपवरकुन्दुरुक्क तुरक्क धूवमघमघंतगंधुद्धयाभामे भवइ'त्ति कालागुरुश्चगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यमिति तुरुष्कं च - शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो - बहुलसौरभ्यो यो गन्ध उद्भुतउद्भूतस्तेनाभिरामं-अतिरमणीयं यत्तत्तथा स्थानं-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९ ।" उभओ पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडगतुडियथंभियभुया चामरुक्खेवं करेंति' [ ]त्ति कटकानि - प्रकोष्ठाभरणविशेषास्त्रुटितानि
D:\ratan.pm5\5th proof