________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ७३
[स्थितिस्थापकनिरूपणम्] अन्यथाकृतस्य पुनस्तदवस्थाऽऽपादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ।
[इति गुणाः] स्थितिस्थापकं लक्षयति-अन्यथेति ।
सङ्ख्यादयोऽष्टौ नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः । अन्ये रूपादयो विशेषगुणाः । द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमत्त्वं विशेषगुणत्वम् ।
द्रव्येति-द्रव्यविभाजका नवोपाधयः पृथिवीत्वादयः, तन्मध्ये द्रव्यविभाजकं यदुपाधिद्वयं पृथिवीत्वं जलत्वं च तत्समानाधिकरणं किं भवति ? द्रव्यत्वम्, सत्ता संयोगविभागादयः, सामान्यगुणाश्च, रूपादयस्तु उपाधिद्रव्यसमानाधिकरणा न भवन्ति, तेषां प्रत्येकवर्तित्वात् । अथ तत्र अवृत्तयो या जातयो रूपत्वादयः, तद्वत्त्वं, विशेषगुणत्वम् ।
[इति तर्कदीपिकायां गुणपदार्थः]
__ [कर्मनिरूपणम्] चलनाऽऽत्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत् सर्वं गमनम् ।
कर्मणो लक्षणमाह-चलनेति । उत्क्षेपणादीनां कार्यभेदमाह ऊर्खेति । शरीरेति-वक्रतासम्पादनं कर्म आकुञ्चनम्, ऋजुतासम्पादक प्रसारणमित्यर्थः ।
पृथिव्यादिचतुष्टयमनोमात्रवृत्ति कर्म । पृथिव्यादिचतुष्टयमनोऽतिरिक्ता
७४ . तर्कसंग्रहः वृत्तित्वे सति पृथिव्यादिचतुष्टमनोवृत्तित्वं पृथिव्यादिचतुष्टयमनोमात्रवृत्तित्वम् ।
[सामान्यनिरूपणम्] नित्यमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । तद् द्विविधं परापरभेदात् । परं सत्ता, अपरं द्रव्यत्वादि ।
सामान्य लक्षयति-नित्यमिति । संयोगेऽतिव्याप्तिवारणाय नित्यमिति । परमाणुपरिमाणादौ अतिव्याप्तिवारणाय-अनेकेति । अनुगतत्वं समवेतत्वम् । घटाद्यत्यन्ताभावो घटाद्यनुगतोऽपि असमवेत इति न अभावादौ अतिव्याप्तिः ।।
नित्यमिति । नित्यत्वे सति अनेकानुगतत्वं सामान्यस्य लक्षणम् । द्वित्वादिसङ्ख्यासंयोगादौ अतिव्याप्तिवारणाय सत्यन्तम् । अथ परमाणुपरिमाणादौ अतिव्याप्तिवारणाय विशेष्यदलम् । अनेकानुगतत्वं नाम अनेकवृत्तित्वमित्युच्यते चेत्, अत्यन्ताभावान्योन्याभावयोरतिव्याप्तिः, तयोनित्यत्वे सति अनेकवृत्तित्वमस्ति, अतोऽनेकसमवेतत्वमिति वक्तव्यम् । अतः परं न दोषः ।
[विशेषनिरूपणम्] नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । विशेष लक्षयति-नित्येति ।।
[समवायनिरूपणम्] नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यत्तदवस्थमपराश्रितमेवावतिष्ठते तौ अयुतसिद्धौ । यथा अवयवाऽवयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति ।
समवायं लक्षयति-नित्येति । संयोगे अतिव्याप्तिवारणाय नित्येति । आकाशादौ अतिव्याप्तिवारणाय सम्बन्ध इति ।