________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ७१
[तर्कलक्षणम्] व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा 'यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्याद्' इति ।
तर्कलक्षणमाह-व्याप्येति । यद्यपि तर्को विपर्ययेऽन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद् भेदेन कीर्तनम् ।
तर्क लक्षयति-व्याप्येति । तर्कस्य व्यभिचारशङ्कानिवारकत्वद्वाराऽनुमानप्रमाणे उपयोगित्वमस्ति, तेन विपर्ययादयं पृथगुक्तः ।
[स्मृतिविभाग:] स्मृतिरपि द्विविधा । यथार्था अयथार्था चेति । प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था । स्मृति विभजते-स्मृतिरिति ।।
[समाप्तं बुद्धिनिरूपणम्]
[सुखनिरूपणम्] सर्वेषामनुकूलतया वेदनीयं सुखम् ।
सुखं लक्षयति-सर्वेषामिति । 'सुख्यहम्' इत्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम् । यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम् । सर्वेषामिति । सुखत्वादिजातिमत्त्वं सुखादित्वम् ।
[दु:खनिरूपणम्] प्रतिकूलतया वेदनीयं दुःखम् । इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।
७२ . तर्कसंग्रहः
[धर्माधर्मनिरूपणम्] विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्योऽधर्मः ।
[बुद्ध्यादीनामात्ममात्रविशेषगुणकथनम्] बुद्ध्यादयो अष्टौ आत्ममात्रविशेषगुणाः बुद्धिइच्छाप्रयत्नाः नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ।
[संस्कारविभाग:] संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति ।
संस्कारं विभजते-संस्कार इति । संस्कारत्वजातिमान् संस्कारः ।
[वेगनिरूपणम्] वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः ।। वेगस्याश्रयमाह-वेग इति । वेगत्वजातिमान् वेगः ।
[भावनानिरूपणम्] अनुभवजन्या स्मृतिहेतुर्भावना, आत्ममात्रवृत्तिः ।
भावनां लक्षयति-अनुभवेति । अनुभवध्वंसे अतिव्याप्तिवारणाय स्मृतीति । आत्मादौ अतिव्याप्तिवारणाय अनुभवेति । स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम् ।
स्मृतेरिति-अनुभवस्य संस्कारजनकत्वं प्राचां मतेऽपि, परं नव्यानां मते स्मृतेरपि संस्कारजनकत्वम् ।