________________
४८. तर्कसंग्रहः
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ४७
अनुमितिकरणमाह-स्वार्थेति । ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसम्भवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत् ? न, 'वह्निव्याप्यधूमवान् अयम्' इति शाब्दपरामर्शस्थले परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् । लिङ्गं न करणम्, अतीतानागतादौ व्यभिचारात् । 'व्यापारवत् कारणं करणम्' इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम् । तज्जन्यत्वे तज्जन्यजनको व्यापारः । अनुमानमुपसंहरति-तस्मादिति ।।
स्वार्थेति-अत्र पूर्व पक्षधर्मताज्ञानं, यथा धूमवानयम् । ततश्च व्याप्तिस्मृतिः-यथा वह्निव्याप्तोऽयं धूमः । ततः परामर्शः-यथा वह्निव्याप्यधूमवानयं पर्वतः । तदनन्तरम् अनुमितिर्जायते । तत्र परामर्श प्रति आद्यं ज्ञानद्वयं कारणम् । अनुमिर्ति प्रति परामर्शस्य कारणता इति स्वमतम् । अथ पूर्वपक्षण मीमांसकमतं दर्शयति-ननु व्याप्तीत्यादि । पूर्व पक्षधर्मताज्ञानं, ततो व्याप्तिस्मृतिः, ताभ्यामेवानुमितिरिति तन्मतम् । अत्रोच्यते 'वहिव्याप्यवानयम्' इति निर्धर्मतावच्छेदकः शब्दजन्यः परामर्शोऽयम्, अत्र आद्यं ज्ञानद्वयं नास्ति, अनुमितिस्तु वर्तते, तर्हि तां प्रति परामर्शस्यैव कारणता भवतामपि स्वीकर्तव्या, अतो गौरवम् । अस्माकं तु लाघवेन सर्वत्र परामर्शस्यैव कारणत्वम् । लिङमिति । ज्ञायमानं लिङ्ग करणमिति प्राचां मतम् । लिङ्गज्ञानं करणमिति नव्याः । प्राचां मते दोषमाह-अतीतेति । 'वह्निमान् अतीतधूमात्' अत्रानुमितिर्वर्तते, लिङ्गं तु नष्टम्, अतो व्यभिचारः । नव्यमते तु न दोषः, लिङ्गे नष्टेऽपि लिङ्गज्ञानस्य सत्त्वात् । फलायोगव्यवच्छिन्नं कारणं करणमिति प्राचा मतम् । 'व्यापारवद्' इति नव्यमतम् । नव्यानां मते यो यो व्यापारः स स प्राचा मते करणम् । अत्र परामर्शद्वारा व्याप्तिज्ञानं करणम्, व्याप्तिज्ञानेन अनुमितौ जननीयायां परामर्शो व्यापारः । तज्जन्यत्वे सतीति-व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्या याऽनुमितिः, तज्जनकत्वं वर्तते परामर्श इति कृत्वा परामर्शो व्यापारः । एवमिन्द्रियेण प्रत्यक्षे जननीये सन्निकर्षों व्यापारः । इन्द्रियजन्यत्वे सति इन्द्रियजन्यं यत् प्रत्यक्षं तज्जनकत्वं वर्तते सन्निकर्षे इति सन्निकर्षो व्यापारः । सादृश्यज्ञानेन उपमितौ जननीयायाम् अतिदेशवाक्यार्थस्मृतियापारः । सादृश्यज्ञानजन्यत्वे सति सादृश्यज्ञानजन्या या उपमितिः तज्जनकत्वं वर्तते
अतिदेशवाक्यार्थस्मृतौ इति । पदज्ञानेन शाब्दबोधे जननीये पदजन्य पदार्थस्मृतियापारः, पदज्ञानजन्यत्वे सति पदज्ञानजन्यो यः शाब्दबोधः तज्जनकत्वं वर्तते पदजन्यपदार्थस्मृतौ इति पदजन्यपदार्थस्मृतिर्व्यापारः । एवं दण्डेन घटे जननीये भ्रमिापारः, दण्डजन्यत्वे सति दण्डजन्यो यो घटस्तज्जनकत्वं वर्तते भ्रम्याम् इति भ्रमिापारः । एवं सर्वत्र योज्यम् । अथ कुलालादौ अतिव्याप्तिवारणाय तज्जन्यत्वे सतीति । दण्डगतरूपादौ अतिव्याप्तिवारणाय विशेष्यदलम् ।
अथ परामर्श व्याप्तिज्ञानजन्यत्वं कया रीत्या तदुच्यते । विशिष्टबोधश्चतुर्धा-विशिष्टस्य वैशिष्ट्यम् (१) विशेष्ये विशेषणम्, तत्रापि च विशेषणान्तरम् (२) एकत्र द्वयम् (३) एकविशिष्टेऽपरवैशिष्ट्यम् (४) इति । अत्र विशिष्ट-वैशिष्ट्यबोधः-यथा विशिष्टवैशिष्ट्यवगाहिबुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारतानिर्णयत्वेन कारणता-यथा रक्तदण्डवान् पुरुषः । अत्र यथा रक्तत्वविशिष्ट-दण्डवेशिष्ट्यावगाहिबुद्धित्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नविशेष्यक-रक्तत्वप्रकारकनिर्णयत्वेन कारणता, तथा अत्र व्याप्तिविशिष्टधूमवैशिष्ट्यवगाहिबद्धित्वावच्छिन्नं प्रति धूमत्वावच्छिन्न-विशेष्यकव्याप्तिप्रकारकनिर्णयत्वेन कारणता इति ।
[लिङ्ग विभागः] लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । लिङ्ग विभजते-लिङ्गमिति ।
[अन्वयव्यतिरेकिलक्षणम्] अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि, यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निः, यथा महानसमित्यन्वयव्याप्तिः । 'यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति,' यथा महाहृद इति व्यतिरेकव्याप्तिः ।