________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः . ४५ दिति-लिङ्गपरामर्श इति ।
भूयोदर्शनेनेति । भूयस्सु स्थानेषु दर्शनं भूयोदर्शनं, यद्वा भूयसां साध्यसाधनसहचाराणां दर्शनं भूयोदर्शनम् । नन्विति । 'यत्र यत्र पार्थिवत्वं तत्र तत्र लोहलेख्यत्वम्' इति बहुतरसहचारदर्शने सत्यपि हारकादौ व्यभिचारः, तत्र पार्थिवत्वे सत्यपि लोहलेख्यत्वं नास्ति अतो भूयोदर्शनेन कथं व्याप्तिग्रहः, इति चेत् ? न, व्यभिचारज्ञानविरहविशिष्टं सहचारज्ञानं व्याप्तिग्राहकमिति विवक्षितत्वात् । अत्र व्यभिचारज्ञानमात्राभावोऽपेक्षितः, तेन निश्चयात्मकं संशयात्मकं च द्विविधमपि यद् व्यभिचारज्ञानं तदभावो ग्राह्यः । तत्र धूमो वहिव्यभिचारीति निश्चयः, धूमो वह्निव्यभिचारी वा नेति शङ्का । तद्विरह इति । यदि धूमो वह्निव्यभिचारी स्यात् तर्हि वह्निजन्यो न स्यात्, वह्निजन्यत्वाभाववान् स्यादित्यर्थः, इत्ययं तर्को व्यभिचारशङ्कानिवर्तकः । नन्विति-ननु इन्द्रियाणां सन्निकृष्टार्थग्राहकत्वं, ततश्च निखिलानां वहीननां निखिलानां च धूमानां सन्निकर्षाभावात् कथं व्याप्तिग्रहः, इति चेत्, न, धूमत्वेति अलौकिकसन्निकर्षत्रिविधःसामान्यलक्षणः (१) ज्ञानलक्षणः (२) योगजधर्मश्चेति (३) । अत्र-धूमत्ववह्नित्वरूपः सामान्यलक्षणोऽलौकिकसन्निकर्षोऽस्ति, तेन कृत्वा सकलानां धूमानां वह्नीनां च ज्ञानस्य सम्भवात् ।
[परार्थानुमाननिरूपणम्] यत् तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत् परार्थानुमानम् । यथा पर्वतो वह्निमान्-१ । धूमवत्त्वात्-२ । यो यो धूमवान् स स वह्निमान् यथा महानसम्-३ । तथा चायम्-४ । तस्मात् तथा-५ इति । अनेन प्रतिपादिताल्लिङ्गात् परोऽप्यग्नि प्रतिपद्यते ।
__ परार्थानुमानमाह-यत्त्विति । यच्छब्दस्य 'तत्परार्थानुमानम्' इति तच्छब्देन अन्वयः । पञ्चावयववाक्यमुदाहरति यथेति ।
४६ . तर्कसंग्रहः यत्त्विति-परप्रतिपत्त्यर्थं परस्य विप्रतिपत्तिवारणार्थं, विप्रतिपत्तिः संशयः संशयजनकं वाक्यं वा ।
[अवयवविभागः] प्रतिज्ञा-हेतूदाहरणोपनय-निगमनानि पञ्चावयवाः । 'पर्वतो वह्निमान्' इति प्रतिज्ञा । 'धूमवत्त्वाद्' इति हेतुः । 'यो यो धूमवान् स स वह्निमान्' इत्युदाहरणम् । 'तथा चायम्' इत्युपनयः । 'तस्मात् तथा' इति निगमनम् ।
अवयवस्वरूपमाह-प्रतिज्ञेति । उदाहृतवाक्येषु प्रतिज्ञादिविभागमाह-पर्वतो वह्निमानिति । साध्यवत्तया पक्षवचनं प्रतिज्ञा । पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः । व्याप्तिप्रतिपादकवचनम् उदाहरणम् । व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनम् उपनयः । हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् । पक्षज्ञानं प्रतिज्ञाप्रयोजनम् । लिङ्गज्ञानं हेतुप्रयोजनम् । व्याप्तिज्ञानम् उदाहरणप्रयोजनम् । पक्षधर्मज्ञानम् उपनयप्रयोजनम् । अबाधितत्वादिकं निगमनप्रयोजनम् ।
प्रतिज्ञेति-उचितानुपूर्विकप्रतिज्ञादिपञ्चकसमुदायत्वं न्यायत्वम् । व्युत्क्रमोक्तानां न्यायत्वं नास्ति, उचितानपर्विकपदोपादानात् । साध्येति । साध्यवत्त्वेन पक्षप्रतिपादकं वाक्यं प्रतिज्ञा । पञ्चम्यन्तत्वे सति लिङ्गप्रतिपादकत्वं हेतुवाक्यस्य लक्षणम् । पक्षधर्मताज्ञानजनकत्वं उपनयवाक्यत्वम् । अबाधितत्वम् असत्प्रतिपक्षत्वं च निगमनप्रयोजनम् ।
[अनुमितिकरणनिरूपणम्] स्वार्थानुमितिपरार्थनुमित्योर्लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ।