________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • २९
[द्रवत्वनिरूपणम्] आद्यस्पन्दनाऽसमवायिकारणं द्रवत्वम् । पृथिवीजलतेजोवृत्ति । तद् द्विविधम् । सांसिद्धिकं नैमित्तिकं चेति । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।
द्रवत्वं लक्षयति-स्यन्दनेति । स्यन्दनं प्रस्रवणम् । तेजःसंयोगजं नैमित्तिकम्, तद्भिनं सांसिद्धिकम् । पृथिव्यां नैमित्तिकमुदाहरति घृतादाविति । तेजसि तदाह सुवर्णादाविति ।।
स्यन्दनेति । कालादौ अतिव्याप्तिवारणाय असमवायीति । कपालसंयोगादौ अतिव्याप्तिवारणाय स्यन्दनेति । स्यन्दनं नाम जलादीनां निम्नाभिसर्पणम् । तत्कारणं त्रेधा । तत्र समवायिकारणं जलादि १ असमवायिकारणं च द्रवीभावः, अद्रवस्वभावानां लोष्टादीनां स्यन्दनायोगात् २ सेतुबन्धाभावादिकं निमित्तकारणम् ३।।
__ [स्नेहनिरूपणम्] चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।
स्नेहं लक्षयति-चूर्णेति । कालादौ अतिव्याप्तिवारणाय गुण इति । रूपादौ अतिव्याप्तिवारणाय चूर्णादिपिण्डीभावेति ।
[शब्दनिरूपणम्] श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ।
३० • तर्कसंग्रहः शब्दं लक्षयति-श्रोत्रेति । शब्दत्वे अतिव्याप्तिवारणाय गुण इति । रूपादौ अतिव्याप्तिवारणाय श्रोत्रेति । शब्दस्त्रिविधःसंयोगजो, विभागजः, शब्दजश्चेति । तत्र-आद्यो भेरीदण्डसंयोगजन्यः । द्वितीयो वंशे वाद्यमाने दलद्वयविभागजन्यश्चटचटशब्दः । भेर्यादिदेशमारभ्य श्रोत्रपर्यन्तद्वितीयादिशब्दाः शब्दजाः ।
श्रोत्रग्राह्य इति । ननु शब्दे क्षणिकत्वं वर्तते, यतः शब्द आद्यक्षणे उत्पद्यते, द्वितीयक्षणे तिष्ठति, तृतीयक्षणे नश्यति । एवं च दूरदेशस्थानां भेर्यादीनां शब्दस्य श्रवणं कथं सङ्गच्छते इति चेद् ? उच्यते, दूरदेशस्थशब्दमारभ्य कर्णपर्यन्तं शब्दधारा जायते । तत्र वीचितरङ्गन्यायेन उत्तरोतरशब्दं प्रति पूर्वपूर्वशब्दः कारणं भवति । तत्राऽयं शब्दजः शब्दो बोध्यः, तेन नासम्भवः । अत्र नाश्यनाशकभावोऽस्ति, तत्र द्वितीयशब्दः प्रथमस्य नाशकः एवं तृतीयो द्वितीयस्य इत्यादि । ननु को वा चरमस्य नाशकः ? उच्यते, चरमशब्द उपान्त्यशब्दस्य नाशकः, उपान्त्यः चरमस्य । एवमन्योन्यं नाश्यनाशकभावो बोध्यः ।
[बुद्धिनिरूपणम्] सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्चेति ।
बुद्धेर्लक्षणमाह-सर्वेति । कालादौ अतिव्याप्तिवारणाय गुण इति । रूपादौ अतिव्याप्तिवारणाय सर्वव्यवहार इति । 'जानामि' इत्यनुव्यवसायगम्यज्ञानत्वं लक्षणम् इत्यर्थः । बुद्धि विभजते-सेति ।
स्मृतेर्लक्षणमाह-संस्कारेति । भावनाख्यः संस्कारः । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रेति ।
अनुभवं लक्षयति-तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमनुभव