________________
२८. तर्कसंग्रहः गुण इति । रूपादौ अतिव्याप्तिवारणाय संयोगनाशक इति । विभागो द्विविधः । कर्मजो विभागजश्च । आद्यो हस्तक्रियया हस्तपुस्तकविभागः । द्वितीयो हस्तपुस्तकविभागात् कायपुस्तकविभागः ।
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • २७ द्रव्यवृत्ति । तच्चतुर्विधम् । अणु, महत्, दीर्घ, हृस्वं चेति ।
परिमाणं लक्षयति-मानेति । परिमाणं विभजते-तच्चेति । भावप्रधानो निर्देशः, अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं च इत्यर्थः ।
[पृथक्त्वनिरूपणम्] पृथग्व्यवहारासाधारणं कारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति ।
पृथक्त्वं लक्षयति-पृथगिति । 'इदम् अस्मात्पृथग्' इति व्यवहारकारणम् इत्यर्थः ।
[संयोगनिरूपणम्] संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ।
संयोगं लक्षयति-संयुक्तेति । 'इमौ संयुक्तौ' इति व्यवहारहेतुरित्यर्थः । सङ्ख्यादिलक्षणेषु सर्वत्र दिक्कालादौ अतिव्याप्तिवारणाय असाधारणेति देयम् । संयोगो द्विविधः । कर्मजः संयोगजश्च । आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः । द्वितीयो हस्तपुस्तकसंयोगात् कायपुस्तकसंयोगः । अव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधिकरणत्वम् अव्याप्यवृत्तित्वम् ।।
अव्याप्यवृत्तिरिति । स्वात्यन्ताभावाधिकरणवर्तित्वम् अव्याप्यवृत्तित्वम् यथा मूलावच्छेदेन वृक्षे संयोगाभावः, शाखावच्छेदेन संयोगो वर्तते ।
[विभागनिरूपणम्] संयोगनाशको गुणो विभागः सर्वद्रव्यवृत्तिः । विभागं लक्षयति-संयोगेति । कालादौ अतिव्याप्तिवारणाय
[परापरत्वनिरूपणम्] परापरव्यवहारासाधारणकारणे परत्वाऽपरत्वे । पृथिव्यादिचतुष्टयमनोवर्तिनी । ते द्विविधे । दिक्कते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।
परत्वापरत्वयोर्लक्षणमाह-परापरेति । परव्यवहाराऽसाधारणकारणं परत्वम् । अपरव्यवहाराऽसाधारणकारणम् अपरत्वम् इत्यर्थः । परत्वाऽपरत्वे विभजते-ते द्विविधे इति । दिक्कृतयोः उदाहरणमाहदूरस्थ इति । कालकृते उदाहरति-ज्येष्ठ इति ।
[गुरुत्वनिरूपणम्] आद्यपतनाऽसमवायिकारणं गुरुत्वं । पृथिवीजल
वृत्ति
।
गुरुत्वं लक्षयति-आद्येति । द्वितीयादिपतनस्य वेगासमवायिकारणत्वाद् वेगे अतिव्याप्तिवारणाय आद्येति ।
आद्यपतनेति । पतनकर्मणः कारणत्रयम् । तत्र समवायिकारणंलोष्टादिपिण्डो यत्र समवेतं पतनमुत्पद्यते श॥ तत्र लोष्टादौ यद् गुरुत्वं भारो वर्तते तदसमवायिकारणम्, लोष्टादिसमवेताद् गुरुत्वादेव तस्योत्पद्यमानत्वात् २।। निमित्तकारणं च आधाराभावादिकम् ॥