SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अश्लीलांशवर्जितः २५ व्याख्या-हे श्रुतिधरपथभृत् ! श्रुतिधरमार्गानुसारिन् ! यत्र यस्यां वृत्तौ प्रथमं प्राक् चस्वारः वर्णाः प्रथमतो वर्णचतुष्टयम् अलघवः दीर्घाः (स्युस्तथा ) षष्ठकः सप्तमोऽपि वर्णः अलघुः दीर्घः स्यात् । हे छन्दःशास्त्राभिलापिन् ! छन्दो. ज्ञानेच्छुक ! तद्वत् तथैव पोडशाद्यौ षोडशा क्षरस्यादिभूतौ द्वौ चतुर्दश-पञ्चदशी ( तथा ) षोडशान्स्यौ पोडशाक्षरस्यान्त्यभूतौ सप्तदशाष्टादशौ तथा अन्त्यो पादान्तभूतौ विंशत्येकविंशती (तद्वत् गुरू स्याताम् )। शिष्य ! हे छात्र ! मुनि-मुनि-मुनिभिः सप्तभिः सप्तभिः सप्तभिश्च वर्णविरामो विरतिश्चेद्यदि दृश्यते विलोक्यते, तदा स्तुत्यैः प्रशंसनीयैः कवीन्द्रैः कविवर्यः सततनिगदिता संतत. कथिता प्रसिद्धा विख्याता सा स्रग्धरा तन्नाम्नी वृत्तिः ( स्यात् )। उदाहरणं यथा आयुः कलोललोलं कतिपयदिवसस्थायिनी यौवनश्रीराः संकल्पकल्पाः घनसमयतडिद्वासनाभोगपूराः । कण्ठाश्लेपोऽपि गृहं तदपि च न चिरं यस्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता ! भवत भवभयाम्भोधिपार तरीतुम् ॥ भाषा-जिसके चरण में प्रथम चार अक्षर तथा षष्ठ, सप्तम, चतुर्दश, पञ्चदश, सप्तदश, अष्टादश, विंशति और एकविंशति अक्षर दीर्घ हों और सातसात अक्षरों पर विराम हो, वह स्रग्धरा नाम वृत्ति कही गई है ॥ ४३ ॥ इति महाकविकालिदासविरचितः सपरिष्कृतः श्रुतबोधः समाप्तः ।
SR No.009626
Book TitleShrutbodha
Original Sutra AuthorN/A
AuthorKanaklal Thakur, Bramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year1968
Total Pages34
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy