________________
श्रुतबोधः
अन्वयः-प्रथमार्द्धम् अपि आर्योत्तरार्द्धतुल्यं प्रयुक्कं चेत् लोके महाकवयः ताम् उपगोति प्रकाशयन्ते ।
व्याख्या-(यत्र वृत्ते) प्रथमार्द्धम् पूर्वार्द्धम् अपि आर्योत्तरार्द्धतुल्यम् आर्यापरार्द्धसदृशं प्रयुक्तं नियोजितं चेत् भवेत् , तदा लोके छन्दोजगति महाकवयः काव्यकर्तारो विद्वांसः तां पूर्वोतलक्षणलक्षिताम् उपगीति तन्नाम्नी वृत्ति प्रकाशयन्ते कथयन्ति । उदाहरणं यथा
अधिसुरभारति भारत-वर्षीया भारती भातु ।
येन हि भाषा राष्ट्र-स्योन्नतिपदवीं सदा यातु ॥ भाषा-जिस छन्द के पूर्वार्द्ध और उत्तरार्द्ध दोनों ही भाग आर्या के उत्तरार्द्ध के सदृश हों, उसे महाकवियों ने उपगीति छन्द कहा है ॥ ६ ॥
(४) अक्षरपलिच्छन्दः आद्यचतुर्थ पञ्चमकं चेद् ।
यत्र गुरु स्यात् साऽक्षरपतिः ।। ७ ॥ अन्वयः-यत्र आद्यचतुथं पञ्चमकं (च) चेत् गुरु स्यात् सा अक्षरपतिः (भवति)।
व्याख्या-यत्र यस्मिन् छन्दसि आधचतुर्थ प्रथमं तुयं च ( तथा ) पञ्चमकम् पञ्चममपि अक्षरं चेत् गुरु द्विमात्रिकं स्यात् , सा पूर्वोक्तलक्षणलक्षिता अक्षरपतिः, भवतीति शेषः । उदाहरणं यथा
कृष्णसनाथा तर्णकपतिः । यामुनकच्छे चारु चचार ॥ भाषा-जिस छन्द के प्रथम, चतुर्थ और चञ्चम भक्षर गुरु हो उसको अक्षरपङ्क्ति छन्द कहते हैं ॥ ७ ॥
(५) शशिवदनाच्छन्दः अगुरु चतुष्कं भवति गुरू द्वौ।
विमलमते ! हे ! शशिवदनाऽसौ ।। ८ ।। अन्वयः-हे विमलमते ! यत्र चतुष्कम् अगुरु भवति, द्वौ गुरू (भवतः) असौ शशिवदना (भवति)।