________________
श्राद्धविधिप्रकरणम्
-
प्रकाश:
भायलः प्राह, यथा मन्नामख्यातिः स्यात्तथा कुरु । तेनोक्तं तथा भावि । चण्डप्रद्योतेन विदिशापूस्त्वन्नाम्ना देवकीयं पुरं | करिष्यते। परं कृतार्द्ध पूजत्वदागत्या आगच्छत्काले सार्चा गुप्तैव मिथ्याग्भिः पूजयिष्यते । तत्प्रतिकृतिरादित्यो भायलस्वाम्ययमित्युक्त्वा बहि: स्थापयिष्यते । मा विषीद दुष्षमावशादेवं भावि । भायलस्तथैव पश्चाद्गतः । अथ प्रातरा म्लानमाल्यां दास्यभावं करिमदनाशं च दृष्ट्वा प्रद्योतमागतं निर्णीय षोडशदेशत्रिषष्ठित्रिशतीपुराधिप उदायननृपोऽभ्यषेणयन्महासेनादिदशकिरीटिनृपान्वितः । मार्गे ग्रीष्मे जलाभावे स्मृतप्रभावतीसुरेण त्रिपुष्कराण्यम्भसाऽपूर्यन्त । क्रमायुद्धे प्रद्योतं रथारोहसङ्केतेऽप्यनिलवेगगजारूढं भ्रष्टसङ्घमध्रितलविद्धद्वीपपाते बद्ध्वा भाले मद्दासीपतिरित्यङ्कं व्यधात् । ततस्तामर्चामानेतुं विदिशां गतः । परं बहूपक्रमेऽप्यचलन्ती अर्चा प्रोचे, वीतभये पांसुवृष्टिवित्रीति नैमि । ततः स पश्चान्निवृत्तोऽन्तरा प्रावृषि सैन्यं न्यस्य स्थितः । वार्षिकपर्वणि उदायननृपे उपोषिते रसवत्यर्थं सूपकारेण प्रद्योतः पृष्टो विषप्रक्षेपभीतः प्रोचे, साधु स्मारितं, ममाऽप्युपवासोऽस्ति । पित्रोः श्राद्धत्वात्तद् ज्ञात्वा न्यगादीदुदायनो ज्ञातमस्य श्राद्धत्वं, परं स यद्येवं वक्ति तदा नाम्नाऽपि साधर्मिकेऽस्मिन् बद्धे पर्वप्रतिक्रान्तिः कथं शुध्यति ? इति तं मुक्त्वा क्षमयित्वा भाले पट्टबन्धं दत्वाऽवन्तिदेशं ददौ । अहो धर्मिष्ठतासन्तोषनिष्ठतादि नृपप्रष्ठस्य । वर्षाप्रान्ते च वीतभयं ययौ । सैन्यस्थाने आगतवणिग्भिः स्थितैर्दशपुरं पुरं जातम् । तत् प्रद्योतेन जीवतस्वाम्यर्चायै शासने दत्तम् । तथा भायलस्वामिनामन्यासपूर्वं विदिशापूर्द्वादशग्रामसहस्राश्चान्ये दत्ताः । अथ प्रभावतीसुरोक्त्योदायननृपः कपिलर्षिप्रतिष्ठिता मर्चन्नन्यदा पाक्षिकपौषधे रात्रिजागरे जातप्रव्रज्याध्यवसायस्तदर्चायै भूरिग्रामा
४७८