SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रकाशः उक्तं वर्षकृत्यम्, अथ जन्मकृत्यं गाथात्रयेणाऽष्टादशभिद्वारैराह जम्मंमि वासठाणं, तिवग्गसिद्धीइ कारणं उचिअं । उचिअं विज्जागहणं पाणिग्गहणं च मित्ताई ॥१२॥ जन्मनि जन्मचारकमध्ये पूर्वमुचितं योग्यं वासस्थानं ग्राह्यम् । किं तदुचितमिति विशेषणद्वारेण हेतुमाह-त्रिवर्गस्य धर्मार्थकामलक्षणस्य सिद्धिनिष्पत्तिस्तस्याः कारणं हेतुः । एवं च यत्र धर्मार्थकामानां त्रयाणामपि सिद्धिः स्यात्तत्र श्रावकेण वस्तव्यं नान्यत्र भवद्वयभ्रंशापत्तेः । तदुक्तम् न भिल्लपल्लीषु न चोरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाश्रयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य गर्हिता ॥ तत्र धाम्नि निवसेद् गृहमेधी, संपतन्ति खलु यत्र मुनीन्द्राः । यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र । ४६०
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy