________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
एकभक्ताशिना भाव्यं तथा स्थण्डिलशायिना । तीर्थानि गच्छता नित्यमप्यतौ ब्रह्मचारिणा ॥ तदनु यथार्हदानादिना सन्तोष्याऽनुज्ञापयति क्षमापतिम् । प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थं देवालयान् ।। आकारयति सविनयबहुमानं स्वजनसाधर्मिकादिवर्गम् । निमन्त्रयते सभक्ति सद्गुरून् । प्रवर्त्तयत्यमारिम् । निर्मापयति चैत्यादौ महापूजादिमहोत्सवम् । ददाति निःशम्बलेभ्यः शम्बलं, निर्वाहनेभ्यो वाहनं, निराधारेभ्यः सद्वचनविभवाद्याधारम्, यथार्ह| सान्निध्यप्रदानविषयोद्घोषणापूर्वं सार्थवाह इव प्रोत्साहयति निरुत्साहमनसोऽपि, कारयति साडम्बरप्रौढतरगुरूदरचतुरकशरावक-ततपटपटमण्डपप्रौढकटाहि-चलत्कूपसरोवरादीन्, सज्जयति शकट-सेजवालक-रथपर्यङ्किकाप्रौष्ठिककरभतुरगादीन्, आह्वयति श्रीसङ्घरक्षार्थमत्युद्भटाननेकसुभटान्, सन्मानयति कवचाङ्गकाद्युपस्कारार्पणेन तान्, प्रगुणयति गीतनृत्यवाद्यादिसमग्रसामग्रीम् । ततः करोति समुहूर्ते शुभशकुनमिनित्ताधुत्साहितः प्रस्थानमङ्गलम् । तत्र मीलयति सकलसमुदाय, भोजयति विशिष्टविशिष्टतरभोज्यताम्बूलादिभिः, परिधापयति पञ्चाङ्गमडिदुकूलादिभिः । विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभाग्यवत्तरनरेभ्यः श्रीसङ्घाधिपत्यतिलकम् । विदधाति सङ्घपूजादिमहामहम् । निर्मापयत्येवमन्येभ्योऽपि यथोचितं सङ्घाधिपत्यादितिलकमहम् । स्थापयति महाधराग्रेसरपृष्ठिरक्षसङ्घाध्यक्षप्रमुखान् । प्रख्यापयति श्रीसङ्घचलनोत्तरणादिसर्वसङ्केतव्यवस्थाम् । सम्भालयति मार्गे सर्वान् सार्थिकान् । विश्राणयति तेषां शकटाङ्गभङ्गाद्यन्तराये सर्वशक्त्या सान्निध्यम् । विधत्ते प्रतिग्राम प्रतिपुरं चैत्येषु च स्नात्रमहाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णचैत्योद्धारणादिचिन्तां च । निर्मिमीते तीर्थदर्शने स्वर्णरत्नमौक्तिकादि-वर्धापन
भः, परिधापयति पञ्चाङ्गमीडीपयत्येवमन्येभ्योऽपि यथाचव्यवस्थाम् । सम्भालया
४४६