________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
एवमुक्त्वा समुड्डीने तूर्णं तत्र पतत्रिणि । अत्यौत्सुक्यं दधच्चित्तेऽभिधत्ते स्म मुहुर्नृपः ॥३१॥ भो भोः पवनवेगं मे हयं सत्याऽन्वयाह्वयम् । आनयध्वमानयध्वं प्रगुणीकृत्य भृत्यकाः ! ॥३२॥ भृत्यैरपि सपर्याण मर्वाण मुपढौकितम् । तमारूढः क्षमापकोटीकोटीर: कीरमन्वगात् ॥३३॥ राज्ञोऽन्येन हि केनापि सा च केनापि हेतुना । आसन्नेनापि नाश्रावि कीरोक्तिर्दूरगैरिव ॥३४॥ तेनाद्य राज्ञः किं जज्ञे क्व चोद्यातीति विह्वलाः । मन्त्र्यादयो न्यवर्त्तन्त कियन्मार्गेऽनुगम्य तम् ॥३५॥ शुकोऽग्रे पार्थिवः पश्चादित्युद्यान्तौ च तौ क्षणात् । योजनानां पंचशतीमतीयतुः समीरवत् ॥३६॥ किंचिद् दिव्यानुभावेन भूमीन्द्रोऽपि हयोऽपि सः । तावन्मार्गमतिक्रान्तौ न तु श्रान्तौ मनागपि ॥३७॥ कर्मणेवामुनाऽऽकृष्टः पक्षिणा विघ्नरक्षिणा । भवान्तरमिव प्राणी क्षमापः प्राप महाटवीम् ॥३८॥ कोऽप्यहो प्राग्भवाभ्यासव्यासवासः सतामपि । स्थानाद्यनिर्णयेऽप्यस्या यहधावेति भूधवः ॥३९॥ तस्यामटव्यां दिव्यांशु मेरुश्रृङ्गमिवागतम् । अस्ति स्वस्तिदमाद्याहच्चैत्यं स्वर्णमणीमयम् ॥४०॥ निविश्य तस्य कलशे कलगीस्तं जगौ शुकः । श्रीआदिदेवं वंदस्व राजन्नाजन्मशुद्धये ॥४१॥
१. पलाण । २. अश्वम् ।