________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
शिल्पं शतधा । यतःपंचेव य सिप्पाइं, घडलोहेचित्तऽणंतकासवए । इक्किक्कस्स य इत्तो, वीसं वीसं भवे भेआ ॥
व्यक्तिविवक्षया त्वधिकभेदमपि शिल्पं स्यात् । इह चाचार्योपदेशजं शिल्पं ऋषभस्वाम्युपदेशेन प्रवृत्तत्वात् । आचार्योपदेशं विना परम्परया प्रवृत्तं तु कृषिवाणिज्यादि कर्मोच्यते । यदाएं
कम्मं जमणायरिओवएसियं सिप्पमन्नहाऽभिहिअं । किसिवाणिज्जाइअं, घडलोहाराइभेअं च ॥
अत्र कृषिवाणिज्यपाशुपाल्यानि साक्षादुक्तानि । शेषकार्याणि प्रायः सर्वाणि शिल्पादौ । स्त्रीपुरुषकलास्तु काश्चिद् विद्यायां, काश्चिच्च शिल्पेष्वन्तर्भवन्ति । कर्म च सामान्यतश्चतुर्भेदम् । यदाह
उत्तमा बुद्धिकर्माणः करकर्मा च मध्यमः । अधमाः पादकर्माणः शिरःकर्माऽधमाधमः ॥
बुद्धिकर्मत्वे ज्ञातम् । यथा-चम्पायां श्रेष्ठिधनसुतो मदनो विशिष्टे बुद्धिहट्टे 'यत्र द्वौ कलहायेते तत्र न स्थेयम्' इति बुद्धि द्रम्मपञ्चशत्या गृहीत्वा मित्रोपहासे पित्रा भत्सितः । स्वधनं लातुं बुद्धः पश्चादर्पणे 'द्वौ यत्र कलहायेते तत्र स्थेयमेव' इति तेन स्वीकारिते नृपभटयोः पथि कलहे पार्श्वे स्थितः, ताभ्यां साक्षीकृतो नृपेण तयोायान्वेषणे साक्ष्याकारणे त्वत्सुतो मद्धितं साक्ष्यं यदि न वक्ष्यति, तदा तवाऽनर्थो भावीति द्वाभ्यां भापितो धनोऽत्याकुल: 'स्वसुतं ग्रहिलं कुरू' इति बुद्धि बुद्धिदात्कोट्या लात्वा सुखी जज्ञे इति बुद्धौ कथा । करकर्मा वाणिज्यादिकृत्, पादकर्मा दूतादिः, शिर:कर्मा भारवाहकादि: ५।
२३७