________________
३४
ततः कृष्णर्षिणा...................देवचक्रेश्वरीगिरा । चित्रकूटपुरे गत्वा, विनेयः कोऽपि पाठितः ॥२१३॥ स सर्वविद्यः श्रीदेवगुप्ताख्यः स्थापितो गुरुः । स्वयं गच्छवाहकत्वं, पालयामास सादरः ॥२१४॥ श्रीदेवगुप्ते गच्छस्य, भारं निर्वाहयत्यथ । कृष्णर्षिः श्रीनागपुरे, विहरन्नन्यदा ययौ ॥२१५॥ तत्र नारायणः श्रेष्ठी, श्रुत्वा तद्धर्मदेशनाम् । प्रतिबुद्धः कु......... ................शतैः ॥२१६॥ व्यजिज्ञपदसौ जातु, कृष्णर्षि भगवन्नहम् । कारयामि त्वदादेशात्, पुरेऽस्मिन् जैनमन्दिरम् ॥२१७॥
.......जिनोदिता । विद्यते तत्र मुख्यत्वं, जैनमन्दिरनिर्मितेः ॥२१८॥ ततः श्रेष्ठी कन्य..
...............हा( दा )य सः ॥२१९॥ "यथारुचि गृहाण त्वं, भूमिं यत्र पुरे तव । सुखायते तत्र कुर्याः, प्रसादे ते कृता मया" ॥२२०॥ सोऽयाचत नागपुरे, दुर्गमध्ये क्षितिं ततः । लब्ध्वाऽऽगत्य द्रुतं तत्र, प्रारेभे देवमन्दिरम् ॥२२१॥ स्वल्परहोभिरतुले, निष्पन्ने जैनमन्दिरे । कारयित्वा मूलबिम्बं, स कृष्णर्षि व्यजिज्ञपत् ॥२२२॥ "प्रभो ! प्रतिष्ठा क्रियतां, यथेदं पूज्यते जनैः । त्वमन्त्राहितसंस्काराः, पूज्यन्ते दृषदोऽपि हि" ॥२२३॥ कृष्णर्षिः प्राह मे पूज्याः, श्रीदेवगुप्तसूरयः । सन्ति गूर्जरमेदिन्यां, तानाकारय सत्वरम् ॥२२४॥ ततः सुतं सविज्ञप्ति, प्रेषयित्वा स भक्तिमान् । गुरूनाकार्य सल्लग्ने, प्रतिष्ठां निरमापयत् ॥२२५॥ तत्र द्वासप्ततिं गोष्ठीर्गोष्ठिकानप्यचीकरत् । जैनधर्मस्य साम्राज्यं, ततो नागपुरेऽभवत् ॥२२६॥ सपादलक्षे कृष्णर्षिरुत्कृष्टं विदधे तपः । यन्निरीक्ष्य जनः सर्वो, विदधे मूर्धधूननम् ॥२२७॥
mala-t.pm5 2nd proof