________________
२४२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सर्वात्मानं सर्वगतं सर्वव्यापि सनातनम् । सर्वसत्त्वाश्रितं दिव्यं चिन्तितं पापनाशनम् ॥६॥ सर्वेषामपि वर्णानां स्वराणां च धुरि स्थितम् । व्यञ्जनेषु च सर्वेषु ककारादिषु संस्थितम् ॥७॥ पृथिव्यादिषु भूतेषु देवेषु समयेषु च। लोकेषु च सर्वेषु सागरेषु सुरेषु च ॥८॥ मन्त्रतन्त्रादियोगेषु सर्वविद्याधरेषु च। विद्यासु च सर्वासु पर्वतेषु वनेषु च ॥९॥ शब्दादिसर्वशास्त्रेषु व्यन्तरेषु नरेषु च । पन्नगेषु च सर्वेषु देवदेवेषु नित्यशः ॥१०॥ व्योमवद् व्यापिरूपेण सर्वेष्वेतेषु संस्थितम् । नातः परतरं ब्रह्म विद्यते भुवि किञ्चन ॥११॥ इदमाद्यं भवेद् यस्य कलातीतं कलाश्रितम् । नाम्ना परमदेवस्य ध्येयोऽसौ मोक्षकाङ्क्षिभिः ॥१२॥ दीप्तपावकसंकाशं सर्वेषां शिरसि स्थितम् । विधिना मन्त्रिणा ध्यातं त्रिवर्गफलदं स्मृतम् ॥१३॥ यस्य देवाभिधानस्य मध्ये ह्येतद् व्यवस्थितम् । पुण्यं पवित्रं म( मा )ङ्गल्यं पूज्योऽसौ तत्त्वदर्शिभिः ॥१४॥ सर्वेषामपि भूतानां नित्यो यो हृदि संस्थितः। पर्यन्ते सर्ववर्णानां सकलो निष्कलस्तथा ॥१५॥ हकारो हि महाप्राणः लोकशास्त्रेषु पूजितः । विधिना मन्त्रिणा ध्यातः सर्वकार्यप्रसाधकः ॥१६॥ यस्य देवाभिधानस्य पर्यन्ते एव वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवैः ॥१७॥
20
१. ह. क. सु । २. ह. क. का । ३. ह. सो, क. ऽसौ ।
D:\mala.pm5\2nd proof