________________
ऋषिभाषितानि
- २११
लाभम्मि जेण सुमणो अलाभे णेव दुम्मणो । सेहु से मस्साणं देवाणं व सयक्कऊ ।। ४३-१ ।। मेणं अरहता इसिणा बुझतं ।
यो लाभे - इष्टाहारादेः सम्प्राप्तौ सत्याम्, सुमना न भवति, अलाभे च तस्यैव दुर्मना अपि नैव भवति । लाभालाभे हर्षशोक परिहृत्य समचित्तवृत्तिरत एव समाधिसिद्ध आस्त इति हृदयम्, तदाह- लाभेऽप्यलाभे च सुखे च दुःखे, ये जीवितव्ये मरणे च तुल्याः । रत्याप्यरत्यापि निरस्तभावाः, समाधिसिद्धा मुनयस्त एव - इति (समाधिसाम्यद्वात्रिंशिकायाम् १०), स तु स एव, मनुष्याणां श्रेष्ठः, यथा देवानां शतक्रतुः इति यमेनार्हतर्षिणोदितम् ।
इन्द्रः ।
एवं से सिद्धे बुद्धे विरए विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छड़ त्ति बेमि ।
-
एवम् साम्यामृतपरिपानात्, स नरोत्तमः, सिद्ध इत्यादि प्राग्वत् । इति त्रिचत्वारिंशत्तमे यमीयाध्ययन आर्षोपनिषद् ।
।। अथ चतुश्चत्वारिंशत्तमोऽध्यायः ।।
अनन्तराध्ययने समता प्रतिपादिता, सा च रागादिनिकारमन्तरेणानुपपन्नेत्याह
"दोहिं अंगेहिं उप्पीलंतेहिं आता जस्स ण उप्पीलति । रागंगे य व दोसे य, से' हु सम्मं णियच्छती । " वरुणेणं अरहता इसिणा बुझतं । । ४४ - १ । ।
मुहु । २. क.ज.ट. ठ.ढ. ण.ध.प समं । न फ संम। ग.घ.च. छ. झ. त
१. ख. थ - सम्म ।
२१२
आर्षोपनिषद्
यस्यात्मा
द्वाभ्यामङ्गाभ्याम् वक्ष्यमाणाभ्याम्, उत्पीडयद्भ्याम् स्वजन्यविकारवेदनामुत्पादयद्भ्याम् नोत्पीड्यते धैर्यानुभावेन न विक्रियते, अङ्गद्वयमेवाह - रागाङ्गम् रागनिमित्तं स्त्र्यादि, द्वेषश्च, पदैकदेशे पदसमुदायोपचारात् द्वेषाङ्गम् - द्वेषनिमित्तं कण्टकादि, द्वयोरप्येतयोर्विकारयोरविषयः सः - धीरपुरुषः, उक्तं च- विकारहेतौ सति विक्रियन्ते येषां न चित्तानि त एव धीराः - इति, सम्यग् नियच्छति - समीचीनतयात्मानमनुशासति, याथातथ्येन वा निरुद्धभावमुपयातीत्यर्थः ।
अध्ययनमेतद्वरुणेनार्हतर्षिणोदितम् । किमस्य सन्निरोधस्य
-
-
फलमित्यत्राह -
एवं से सिद्धे बुद्धे विरए विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि ।।
एवमित्यादि पूर्ववत् । इति चतुश्चत्वारिंशत्तमे वरुणीयाध्ययन आर्षोपनिषद् ।
॥ अथ पञ्चचत्वारिंशत्तमोऽध्यायः ।। अनन्तराध्ययने रागादिविकारनिकारोऽभिहितः, कामादिदुर्विपाकविज्ञानत एव शक्य इत्याह
अप्पं च आउं इह माणवाणं सुचिरं च कालं णरएसु वासो । सव्वे यकामा णिरयाण मूलं को णाम कामेसु बुहो रमेज्जा ? ।।४५-१ ।। इह - मनुष्यलोके - मानवानाम् - मनुष्याणामायुरल्पम्, उत्कृष्टतोऽपि त्रिपल्योपममितत्वाद्युगलिककाले, वर्तमाकाले तु
सोऽपि