________________
Re-ऋषिभाषितानि -
अंकुरा खंधखंधीयो जहा भवइ वीरुहो। कम्मं तहा तु जीवाणं सारा सारतरं ठितं।।९-१४।।
यथाऽङ्कुरात् - प्ररोहात्, बलिशलतादिक्रमेण, स्कन्दतीति स्कन्धः - प्रकाण्डः, कस्कयोर्नाम्नीति स्कभागस्य खः। स एव शाखाप्रशाखाद्युपेतत्वेन स्कन्धस्कन्धिको वीरुधः - वृक्षः, भवति। तथा तु - तथैव जीवानां कर्म, सारः - स्वयं लघुरपि महद्विकारजननप्रत्यलोऽङ्कुरादिः, तस्मादपि सारतरम्, समधिकसारत्वयुतं स्थितम् - तद्रूपेण व्यवस्थितम्, अत्यन्तसूक्ष्मतया चर्मचक्षुषामगोचरत्वेऽपि विश्ववैचित्र्यबीजत्वादिति तदेव चिन्तयति
उवक्कमो य उक्केरो संछोभो खवणं तथा। बद्ध-पुट्ठ-निधत्ताणं वेयणा तु णिकायिते।।९-१५।।
उपक्रमः - पूर्वोक्तः, च: - वक्ष्यमाणसमुच्चये, उत्केरः - स्थित्याधुद्वर्तनम्, सङ्क्षोभः - सम्यक् क्षुब्धीकरणम्, शुभाशुभाध्यवसायप्रकर्षणाशुभशुभकर्मरसविघातनमित्यर्थः। तथा क्षपणम्- प्रकृत्यन्तरसङ्क्रमितस्य कर्मणः प्रदेशोदयेन निर्जरणम्। तदेतत् सर्वं बद्ध-स्पृष्ट-निधत्तानां कर्मणां सम्भवति। तत्र स्पृष्टम्- जीवेन सह संयोगमात्रमापन्नम्, बद्धम् - जीवप्रदेशैरात्मीकृतम्, निधत्तम् - उद्वर्तनापवर्तनवर्जिताशेषकरणायोग्यतया विहितम्। निकाचिते - सर्वकरणायोग्यतया विहिते कर्मणि सति वेदना तु - विपाकोदय एव, भवतीति शेषः, एतच्चोक्ताशयमेव। यत एवं तस्मात्
- आर्षोपनिषद् - उक्कडंतं जधा तोयं, सारिज्जंतं जधा जलं। संखविज्जा णिदाणे वा, पावं कम्मं उदीरती।।९-१६।।
यथा उत्कृष्यमाणं तोयम्, कूपप्रभृतेः, यथा च सार्यमाणं जलम्, अवटादारामादौ, सङ्क्षपयेत्, सन्ततोत्सारणेन मालिकादिः, तथा पूर्वकृतकर्माण्यपि सम्यक् - सत्तपसा क्षपयेत् - क्षयगोचरीकुर्यात्। तथा चागमः - जहा महातलागस्स सन्निरुद्धे जलागमे। उस्सिंचणाए तवणाए कमेणं सोसणा भवे।। एवं तु संजयस्सावि पावकम्मनिरासवे। भवकोडिसंचिअं कम्मं तवसा निज्जरिज्जइ -इति ।
अथ वैतदनभीष्टम्, निदाने सुखस्पृहालक्षणे मनसोऽनुगतत्वात्, तदा पापं कर्मोदीर्यते - प्राप्तकालतयोदयं प्राप्नोत्येव, अप्रतिहतपापोदयस्य चक्रिशक्रादिभिरप्यन्यथाकर्तुमशक्यतया सुखस्पृहामात्रनिवर्त्यत्वासम्भवात्। ततोऽवश्यं पापप्रतिघाते यतितव्यमिति प्रकारान्तरेणाह
अप्पा ठिती सरीराणं, बहुं पावं च दुक्कडं। पुव्वं बज्झिज्जते पावं, तेण दुक्खं तवो मयं।।९-१७।।
अल्पा, उत्कर्षतोऽपि सङ्ख्यातवर्षप्रमाणत्वात्, स्थितिः सजीवतयावस्थानम्, शरीराणाम् - कर्मभूमिजमनुजसम्बन्ध्यौदारिकदेहानाम्। बहु - प्रभूतम्, पापं च - अशुभकर्म, दुष्कृतम् - दुष्टाध्यवसायविहितम्। बहुत्वं चास्यासङ्ख्यकालादनुसमयबध्यमानतयातिशयेनोपचितत्वात्। १. उत्तराध्ययने । ।३०/५-६ ।।
१. प्राकृतव्याकरणे।