________________
70 ऋषिभाषितानि
सङ्गातीतः, सङ्गच्छते वशीभवति यस्माज्जीवः स सङ्गःदेहाद्यासक्तिरिति तत्स्वरूपावगमात् तमेव विशेषयति सर्वस्नेहातिक्रान्तः - स्वजनादिस्नेहविनिर्मुक्तः, माया पिया हुसा भाया भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय लुप्पंतस्स सकम्मुणा सर्ववीर्यइति संवेदनात् । तमेव विशेषयति परिनिर्वृतः, अध्यात्मवीर्यनिः शेषविशेषशालित्वात्, तथा च पारमर्षम् - उज्जमधीतिधीरतं, सोंडीरत्तं खमा य गंभीरं । उवओगजोगसंजमादियं होइ अज्झप्पो इति । अत एव सर्वक्रोधोपरतः, आत्मपरप्रतिष्ठितोभयक्रोधविरतत्वात्, सर्वमानोपरतः, परमबुद्धत्वेन जात्यादिमदोन्मुक्तत्वात्, तदुक्तम्अहंभावोदयाभावो बोधस्य परमावधिः- इति । सर्वमायोपरतः, मनोवाक्कायविसंवादवर्जनात् सर्वलोभोपरतः, निजाङ्गेऽपि ममत्वत्यागात्, यथाऽऽह किमिदं कीदृशं कस्य कस्मात् क्वेत्यविशेषयन्। स्वदेहमपि नावैति योगी योगपरायणः - इति । ननु सिद्धावस्थायां निजाङ्गस्यैवाऽसम्भव इति चेत्, ममत्वविरहादस्यापि तथैवेति तत्रैव किं न पर्यनुयुज्यते ? वस्तुतस्तु सिद्धानामपि स्वमुक्तदेहानां प्रत्यक्षत्वात् तत्र ममकारविरहाच्च न काप्यनुपपत्तिः । नन्वेवं नावैतीत्यंशासङ्गतिः, सिद्धानां सर्वज्ञत्वादिति चेत् ? न, ममकारविरहेण स्वस्वामिकत्वेन तदज्ञानात्, अजीवग्रहेऽजीवत्वप्रसङ्गस्योपपादितत्वात्, यथार्थज्ञानस्यैव सार्वज्ञ्यलक्षणत्वाच्चासङ्गतिविरहात्। व्यवहारबाधस्तु साधकावस्थामधिकृत्यातीतनयापेक्षया समाधेय इति कृतं प्रसङ्गेन ।
-
-
-
१९
१. उत्तराध्ययने । । ६-३ ।। २ सूत्रकृताङ्गे वीर्याध्ययनम् । ।१-८ ।। ३ स्थानाङ्गे । । २४ ।। ४. इष्टोपदेशे । ।४२।। ५. ऋषिभाषिते ।।१-५ ।। वृत्ती ।
आर्षोपनिषद् यतोऽसौ सर्वकामादिविरतः, तत एव सर्वपाशादानोपरतः, सर्वकर्मकुवासनाग्रहणविरतत्वात् एवंविधस्य तद्योगयोग्यताऽपगमात् । एवं सुसर्वसंवृतः, सर्वथाऽपि पिहिताश्रवत्वात् । आनन्त्याद्दोषाणां सर्वोपरतिप्रतिपत्तय आह- सुसर्वसर्वोपरतः, स्त्रियतेऽनेन नारकादिपर्यायात् पर्यायान्तरमिति सर्वः - दोषः क्षुद्रतादिः, ततश्च सुतरां सर्वदोषोपरत इत्यर्थः, तथा सुतरां सर्वतः सर्वथोपशान्तः सुसर्वसर्वोपशान्तः, सर्वोपाधिशुद्धकषायोपशमोपशोभित इत्यर्थः, ततः सुसर्वसर्वपरिवृत्तः, शौभनैः सर्वैरपि ज्ञानादिभिः सर्वथा परिकरितः, त्रैलोक्येऽपि ज्ञानादीनामेव शोभनत्वात् । स च एवम्भूतो न कुत्रापि सज्यते, परममाध्यस्थ्यगुणानुविद्धत्वात् । तस्मात् सर्वलेपोपरतो भविष्यामि, इति कृत्वाऽसितेन देविलेनार्हता ऋषिणोदितम् । अत्रायं सम्प्रदायः
भवियव्वं भो ! खलु सव्वकामविरएण एयमज्झयणं । भासितु देविलासुयरायरिसी सिवसुहं पत्तो ।। अत्र व्याख्या- 'भोः !' इति भव्यामन्त्रणे, 'खलु' इति निश्चयेन सर्वकामविरक्तैर्भाव्यं भवद्भिरिति गम्यम्, शेषं सुगमम् । भावार्थः कथानकगम्यः । तच्चेदम्
२०
उज्जयिन्यामभूत् पुर्यां पार्थिवो देविलासुतः । अनुरक्तलोचनाऽऽख्या, प्रियाऽस्याऽऽरक्तलोचना । | १ || नृपोऽन्यदाऽस्ति( Ssस्ते) शय्यायां विवृणोति प्रिया कचान् । तदन्तः पलितं दृष्टं, १. असित इति श्यामोऽवद्धः मुक्तो वा, देविल इति देववान् प्रशंसार्थमतुव्इलप्रत्ययः, ततश्च सौभाग्यशालीत्यर्थः । सम्भावनामात्रमेतत् तेनान्यार्थं यादृच्छिकं वा नामापि सम्भवति । वक्ष्यमाणसम्प्रदायानुसारेण तु देविलासुत इति नाम ज्ञायते । २. ऋषिमण्डलप्रकरणे । । १२५ ।।