________________
१४
न-ऋषिभाषितानि
एतद्विवक्षयैव व्याख्यान्तरमाद्रियते - अल्पा अपि आरम्भभीरुका न सत्त्वाः, दुरापत्वाद् भवनिर्वेदस्य। निर्विण्णानामपि सद्गुरुभावयोगो दुअाप इति तृतीया व्याख्या - आप्ते आरम्भभीरुके षट्कायदयापरे सद्गुरौ दुःखोपशमगवेषका न सक्ताः - न समुल्लसितबहुमानाः, समासन्नकल्याणानामेव सत्पक्षपातसम्भवात्। ततः सत्पक्षपातविरहेण सद्दर्शनेनापि वञ्चितानां तेषां या दुर्दशा भवति तामाविष्कुर्वन्नाहगच्छति कम्मेहिं सेऽणुबद्धे,
पुणरवि आयाति से सयंकडेणं। जम्मण-मरणाई अट्टे पुणरवि,
आयाइ से सकम्मसित्ते।।२-३।। गच्छति चातुरन्तसंसारे कुत्रापि कर्मभिः सोऽनुबद्धः, शृङ्खलानिबद्धकुक्कुरवत्, अत एव पुनरपि आयाति स स्वयं कृतेन गत्यादिकर्मणा गत्यन्तरम्, विमुक्तिमन्तरेण प्रतिष्ठानासम्भवात्, संसरणस्यैव संसारार्थत्वात्। एवं जन्ममरणाद्यार्त्तः पुनरप्यायाति स स्वकर्मसिक्तः प्रतिसमयं मिथ्यात्वाद्याश्रवकृतानन्तकर्मनिषेकः, गत्यन्तरमेव, तथा चार्षम्- एगया देवलोगेसु नरएसु वि एगया। एगया आसुरं कायं आहाकम्मेहिं गच्छइ।। एगया खत्तिओ होइ तओ चंडालबोक्कसो। तओ कीड पयंगो य तओ कुंथु पिवीलिया - इति ।
ननु कोऽस्या भवपरम्पराया हेतुरिति चेत् ? अत्र निदर्शयति१.एतच्च दुख-मोह-गर्भवैराग्येण निर्विण्णापेक्षया ज्ञेयम् । २. विधेवाऽत्र क्षेत्रपुद्गलपरावर्त्तभावना। ३. उत्तराध्ययने ।।३/३-४।।
- आर्थोपनिषद् - बीया अंकुरणिष्फत्ती, अंकुरातो पुणो बीयं। बीए संजुज्जमाणम्मि, अंकुरस्सेव संपदा।।२-४।।
बीजात् अङ्कुरनिष्पत्तिर्भवति, अङ्कुरात् पुनः बीजं पत्रफलादिद्वारेणोद्भवति। एवं हेतुभावेन बीजे समुह्यमाने - सम्यग् जलसेकेन पोष्यमाणे सति अङ्कुरस्यैव सम्पत् - वृद्ध्यादिलक्षणा लक्ष्मी भवति, कार्यधर्माणां कारणधर्मानुविधायित्वात्। एष दृष्टान्तः, अयमस्योपनयः
बीयभूताणि कम्माणि, संसारम्मि अणादिए। मोहमोहितचित्तस्स, ततो कम्माण संतती।।२-५।।
बीजभूतानि कर्माणि संसारे अनादौ, अणाइ जीवस्स भवे, अणाइकम्मसंजोगनिव्वत्तिए - इति वचनात् । ततः किमित्याह- मोहमोहितचित्तस्य ततः कर्मणां सन्ततिः, सानुबन्धतायोगात्, तथा चार्षम्- जे वेयइ ते बंधइ इति। मोहनीयमात्रेऽयं न्याय इति चेत् ? को वा किमाह ? तथाऽपि नास्थानप्रयुक्तः, मोहस्यैव भवबीजत्वेन वक्ष्यमाणत्वात्। एनमेवार्थं दृढयतिमूलसेके फलुप्पत्ती,
मूलघाते हतं फलं। फलस्थी सिंचती मूलं,
___ फलघाती ण सिंचती।।२-६।। मूलसेके कृते सति फलोत्पत्तिः स्यात्, मूलघाते कृते सति १. संजुज्जमाणम्मि - संरक्ष्यमाणे सतीत्यप्यर्थः, त-बुज्झ, ग-झ-द - जुज्ज, घ-च-छ - बुज्झ । २. पञ्चसूत्रे ।।१।।