________________
नल-ऋषिभाषितानि
-२१९ यद्वा ग्राहः - सिंहकृतं मरणान्तं सर्पग्रहणम्, दंशः - सर्पकृतं सिंहसमापनावहं दशनम्। ताभ्यामुभावपि सुन्दोपसुन्दन्यायेन विनाशं गतावित्यर्थः। दृष्टान्तान्तरमाह -
सुप्पियं तणयं भद्दा, अण्णाणेण विमोहिता। माता तस्सेव सोगेण, कुद्धा तं चेव खादति।।२१-१०।।
भद्रा माताऽज्ञानेन विमोहिता सती, सुप्रियम् - अतीवाभीष्टम्, सुप्रियसझं वा, तनयम् - आत्मजम्, तस्यैव वियोगजनितेन शोकेन क्रुद्धा सती तमेव मारयित्वा तच्छरीरं खादति। एतदुहारणं सुकोशलमातृसहदेवीज्ञातसदृशं सम्भाव्यते, तदेव वा नामान्तरेण। किमतः परमज्ञानविजृम्भितमित्युपन्यासहृदयम्। किञ्च लौकिक्यपि सिद्धिरज्ञानेन न प्राप्यते, किं पुनर्लोकोत्तरेत्याह
विण्णासो ओसहीणं तु, संजोगाणं व जोयणं। साहणं वा वि विज्जाणं, अण्णाणेण ण सिज्झती ।।
॥२१-११॥ औषधीनाम् - विचित्ररसवीर्यविपाकानां वनस्पतीनाम्, विन्यासः - रोगापहारादिप्रयोजनसाधकतया निक्षेपः, तुः - लोकोत्तरसिद्धिभिन्नपक्षद्योतकः। तथा रसवत्यादिनिष्पत्तये सम्यक् - सिषाधयिषितसाधका यथा स्यात्तथा युज्यन्ते - मिश्रीक्रियन्ते, इति संयोगाः - लवणादयः, तेषां योजनम् - सान्वर्थतासम्पादक मिश्रणम्। विद्यानां वाऽपि साधनम् - तत्सिद्धिसमर्थप्रक्रिया - पूर्वोक्ता। तदेतत्रितयमज्ञानेन - उचितमात्राद्यनवगमेन, न - नैव सिध्यति - इति लोकसिद्धम्, अज्ञस्य तत्प्रवृत्तस्य प्रायः ।
२२०
- आर्षोपनिषद् -57 प्रत्यपायकायक्लेशादेरेव सम्भवात्। अत एवोक्तम् - सव्वहा दारुणं अन्नाणं - इति। अतोऽज्ञानं परिवर्ण्य ज्ञान एव प्रयतितव्यम्, लौकिकसिद्धीनामपि तत एव सम्भवादित्याह -
विण्णासो ओसहीणं तु, संजोगाण व जोयणं। साहणं वा वि विज्जाणं, णाणजोगेण सिज्झती।।
॥२१-१२।। प्राग्वत्। नवरं ज्ञानयोगेन - विन्यासादौ समुचितमात्राद्यवगमावाप्त्या। इत्थमेवास्य लोकोत्तरसिद्धिरपीत्युपनयति -
एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।।
एवमित्यादि प्राग्वत्। इत्येकविंशतितमगाथापतिपुत्रीय-मध्ययन आर्षोपनिषद्।
॥ अथ द्वाविंशतितमाध्यायः।। अनन्तराध्ययनेऽज्ञवक्तव्यताऽभिहिता, अत्र तु तद्विपक्षभूतां बुद्धवक्तव्यतामभिदधन्नाह -
"परिसाडी कम्मे, अपरिसाडिणो बुद्धा, तम्हा खलु अपरिसाडिणो बुद्धा णोवलिपति रएणं पुक्खरपत्तं व वारिणा" दगभाले(? गद्दभे)ण अरहता इसिणा बुइतं ।।२२-१॥
परिशाटः - विशरणम्, तदस्त्यस्येति परिशाटि - अवसादनप्रकृति, कर्म-ज्ञानावरणादि, उत्कर्षतोऽप्यसङ्ख्येयकालेन १. समरादित्यकथायाम् ।। नवमभवे ।।
Ashopnisad_2.p65
2nd Proof