________________
२१४ -
नल-ऋषिभाषितानि
-२१३ “णाहं पुरा किंचि जाणामि, सव्वलोकंसि" गाहावतिपुत्तेण तरुणेण अरहता इसिणा बुइतं ॥२१-१॥
नाहं प्राक् - सज्ज्ञानावाप्तेर्वाक् किञ्चिज्जानामि, सर्वलोके - निःशेषे पञ्चास्तिकायात्मके भुवने, इति गाथापतिपुत्रेण तरुणेनार्हतर्षिणोदितम्। उक्तहेत्वादिमाह
अण्णाणमूलकं खलु भो पुव्वं न जाणामि न पासामि नोऽभिसमावेमि नोऽभिसंबुज्झामि, नाणमूलाकं खलु भो! इयाणिं जाणामि पासामि अभिसमावेमि अभिसंबुज्झामि। अण्णाणमूलयं खलु मम कामेहिं किच्चं करणिज्जं, णाणमूलयं खलु मम कामेहिं अकिच्चं अकरणिज्जं, अण्णाणमूलयं जीवा चाउरतं संसार जाव परियट्टयंति, णाणमूलयं जीवा चाउरतं जाव वीयीवयंति। तम्हा अण्णाणं परिवज्ज णाणमूलकं सव्वदुक्खाणं अंतं करिस्सामि। सव्वदुक्खाणं अंतं किच्चा सिवमचल जाव सासतं अब्भुवगते चिट्ठिस्सामि।।२१-२।।
अज्ञानम् - मिथ्यात्वावृतविशेषबोधलक्षणात्मपरिणामः, तन् मूलम् - कारणं यथा स्यात् तथाऽज्ञानमूलकम्, खलु भो अहं पूर्वम्- सज्ज्ञानदर्शनावाप्तेराक्, न जानामि, वस्तुविशेषस्वरूपम्। न पश्यामि, तत्सामान्यस्वरूपम्। नाभिमुख्येन सम्यगवैमि - अवायस्यैवाभावेन तद्वैशिष्ट्यायोगात्, नाभिमुख्येन।
-आर्षोपनिषद् -50 सम्यग् बुध्यामि, तत एव। तदेतत् प्राक्तनकालवक्तव्यता, इदानींतनीमाह - ज्ञानमूलकमित्यादि सुगमम्।
अज्ञानमूलकं खलु मम कामैः - शब्दादिगुणैः, कृत्यम् - प्रयोजनम्, करणीयम् - उपायेन साधनीयमभवत्, अज्ञानानुभावेन मनःस्वास्थ्यसुखानभिज्ञस्य तदभिलाषभावात्, उक्तं च - तावत् सुखेच्छा विषयादिभोगे, यावन्मनःस्वास्थ्यसुखं न वेत्ति। लब्धे मनःस्वास्थ्यसुखैकलेशे, त्रैलोक्यराज्येऽपि न तस्य वाञ्छा - इति । एतदेवाह - ज्ञानमूलकं खलु मम कामैरकृत्यम् - अप्रयोजनम्, अत एवाकरणीयम् - असाधनीयम्। अज्ञानमूलकं जीवा नारकादिविभागेन चातुरन्तं संसारं यावत् परिवर्तन्ते। ज्ञानमूलकं जीवाश्चातुरन्तं यावद्व्यतिव्रजन्ति।
तस्मादज्ञानं परिवर्ण्य - सम्यक्त्वप्रतिपत्त्या त्यक्त्वा, ज्ञानमूलकं सर्वदुःखानामन्तं करिष्यामि, तत एव कृत्स्नकर्मक्षयात्, उक्तं च - ज्ञानमेव बुधाः प्राहुः कर्मणां तापनात्तपः - इति। नन्वेवम् - ज्ञानेनैव हि संसारविनाशो नैव कर्मणा - इत्यभ्युपगमेन परमतप्रवेश इति चेत्? न, नाणेण विणा करणं न होई - इत्युक्तेर्ज्ञानस्यापि क्रियाजननद्वारेण कर्मक्षयहेतुत्वाभ्युपगमात्, न हि द्वारेण द्वारिणोऽन्यथासिद्धिः सम्भवतीति नोक्तक्षतिर्नापि क्रियापलापः। वस्तुतस्तु ज्ञानक्रियासमुच्चय एव कृत्स्नकर्मक्षयः, प्रत्येक-हेतुतोक्तिस्तु तत्तन्नयाभिप्रायेणेति ध्येयम्। अत एवोक्तम् -
१. हृदयप्रदीपे ।।३३ ।। २. दृश्यतां ऋषिभाषिते । ।३-१ ।। ३. ज्ञानसारे ।।३१-१ ।। ४. रुद्रहृदयोपनिषदि । ।३५ ।। ५. मरणविभक्तिप्रकीर्णके । ।१४७।।
2nd Proof