________________
नर-ऋषिभाषितानि
२०५ स्वतो नापि परतो, न द्वाभ्यां नाप्यहेतुतः। उत्पन्ना जातु विद्यन्ते, भावाः क्वचन केचन।।
नन्वसदेतद्विकल्पजालम्, स्वत एवोत्पादस्येष्टत्वादिति चेत् ? न, वैयर्थ्यात्, तदवदाम - तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चिज्-जातस्य जन्म पुनरेव च नैव युक्तम्- इति । अत एव परतोऽप्युत्पादासम्भव इत्युक्तमेव, किञ्च परत्वं तु स्वभिन्नाशेषपदार्थसार्थसाधारणमिति तत्सर्वेषां जनकत्वप्रसङ्ग एवं स्यात्, तथाहि - अन्यत् प्रतीत्य यदि नाम परोऽभविष्यज्जायेत तर्हि बहुलः शिखिनोऽन्धकारः। सर्वस्य जन्म च भवेत् खलु सर्वतश्च तुल्यं परत्वमखिलेऽजनकेऽपि यस्मात् - इति। एतदनभ्युपगमेचाविगानमतः सूक्तम् - सव्वतो सव्वसंभवाभावा णो तच्चं इति । प्रमाणं चात्रास्माकमागमः - स चायं बीजहेतुकोऽङ्कुर उत्पद्यमानो न स्वयंकृतो न परकृतो नोभयकृतो नाप्यहेतुसमुत्पन्नो नेश्वरकालाणुप्रकृतिस्वभावसम्भूतः - इति । एवं चानुत्पाद एव परमार्थ इति। इत्थं सर्वशून्यतां साधयति सर्वोच्छेदवादी, सोऽयं सर्वोत्कटः ।
अथैवं प्रस्तुतसूत्र-तृतीयाङ्गवृत्त्योरन्यतरस्य वैतथ्यप्रसङ्गः, १. मध्यमकशास्त्रे ।। पृ.६ ।। २. मध्यमकावतारे ।।६-८।। ३. ऋषिभाषिते ।।२०६।। ४. शालिस्तम्बसूत्रे । ५. बनछेदिकासूत्रे। ६. शून्यवादविस्तरार्थ दृश्यताम् - द्वादशारनयचक्रे द्वादशोऽरः, विशेषावश्यकभाष्ये ।।१६९२-१९९६ ।।, शास्त्रवार्तासमुच्चये ।।६/५४-६३ ।।, शून्यतासप्ततिः, मध्यमकशास्त्रम्, माध्यमिककारिका, विग्रहव्यावर्तिनी, तत्त्वोपप्लबसिंहः - इत्यादि। अत्रोत्तरपक्षस्तु मूलेऽभावात्, ग्रन्थगौरवभयाच्चोपेक्षितः, स्याद्वादमञ्जरी (१७) - प्रभृतिग्रन्धेभ्योऽवसेयः। सङ्क्षिप्तरुचिभिस्तु मत्कृतं न्यायविशारदबार्तिकमवलोक्यम् ।। पृ.१८९-१९२ ।।
- आर्षोपनिषद् - तस्यामन्यथाव्याख्यातत्वादुत्कटपञ्चकस्य, तथाहि - 'उक्कल' त्ति उत्कटा उत्कला वा, तत्र दण्डः - आज्ञा, अपराधे दण्डनं वा, सैन्यं वा, स उत्कटः - प्रकृष्टो यस्य तेन वा उत्कटो यः स दण्डोत्कटः, दण्डेन वोत्कलति - वृद्धिं याति यः स दण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यम् - प्रभुता, स्तेनाः - चौराः, देशः - मण्डलम्, सर्वम् - एतत्समुदय इति । अतः प्रकट एव प्रस्तुतसूत्रेण तद्विरोध इति। __मैवम्, तस्यार्थान्तरत्वेन सम्यक्त्वात्, न हि मार्गो मार्गान्तरस्य दूषको भवतीति। वस्तुतस्तु प्रतिसूत्रमनन्तार्थसद्भावान्न कोऽपि विरोधावकाशः, यदाह- सव्वणईणं जा हुज्ज वालुया सव्वउदहिणं जं उदयं। इत्तो य अणंतगुणो अत्थो इक्कस्स सुत्तस्स - इति ।
अथ देहात्मवाद्येव पुनरपि स्वमतं समर्थयतिउड़े पायतला अहे केसग्गमस्थका एस आतापज्जवे कसिणे तयपरियंते जीवे, एस जीवे जीवति, एतं तं जीवितं भवति। से जहा णामते दड्डेसु बीएसु ण पुणो अंकुरुप्पत्ती भवति, एवामेव दढे सरीरे ण पुणो सरीरुप्पत्ती भवति। तम्हा इणमेव जीवितं, णस्थि परलोए, णस्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे, णो पच्चायंति जीवा, णो फुसंति पुण्ण-पावा, अफले कल्लाण-पावए।।२०-७।। ऊर्ध्वम् - ऊर्ध्वभागे, पादतलौ - चरणतलौ, अधः -
Ashopnisad 2.p65
2nd Proof
१. स्थानाङ्गे।।४५६।। वृत्ती। २. सम्बोधप्रकरणे ।।१०-५१ ।।