________________
२००
नर-ऋषिभाषितानि
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।।
एवमित्यादि प्राग्वत्। इत्येकोनविंशतितम आर्यायनाध्ययन आर्षोपनिषद्।
॥ अथ विंशतितमाध्यायः।।। अनन्तराध्ययनेऽनार्यमित्रवर्जनमुक्तम्, तच्च तत्स्वरूपानभिज्ञानां दुःशक्यमिति तेषामेव केषाञ्चित्स्वरूपमत्रावेदयति -
पंच उक्कला पन्नत्ता, तं जहा - दंडुक्कले १ रज्जुकले २ तेणुक्कले ३ देसुक्कले ४ सबुक्कले ५।२०-१।।
पञ्च उत्कटाः - मिथ्यात्वमोहमदिरापानेन मत्ताः, प्रज्ञप्ताः, तीर्थकरादिभिरिति गम्यते। तद्यथा - दण्डोत्कटः, रज्जूत्कटः स्तेनोत्कटः, देशोत्कटः, सर्वोत्कट इति। तत्राद्यं विवेचयति -
से किं तं दंडुक्कले ? दंडुक्कले नामं जे णं दंडदिटुंतेणं आदिल्लमज्झऽवसाणाणं पण्णवणाए समुदयमेत्ताभिधाणाई ‘णस्थि सरीरातो परं जीवो' त्ति भवगतिवोच्छेयं वदति, से तं दंडुक्कले १।।२०-२।।
अथ किं तद्दण्डोत्कटः ? इति प्रश्नः, अत्रोत्तरःदण्डोत्कटो नाम यः, णं - वाक्यालङ्कारे, दण्डः - लकुटः, १. मत्ते शौण्डोत्कटक्षीवाः ।। अभिधानचिन्तामणी - ४३६ ।। २. उद्दिष्टनिर्देशरूपत्वेन विशेष्यलिङ्गानापत्तेस्त्रान्यत्र च नपुंसकलिङ्गमदुष्टमित्यवधेयम् । लिङ्गव्यत्ययो वाऽवगन्तव्यः, यथाऽभिहितं श्रीमलयगिरिचरणः - अथ किं तदाचार इति ? अथवा कोऽयमाचार? - इति नन्दीसूत्रे ।।४६।। वृत्ती।
- आर्षोपनिषद्तस्य दृष्टान्तेन तमुदाहरणतयाऽऽलम्ब्य, आदिमध्यावसानानां प्रज्ञापनया - यथा हि दण्ड आदिभागो मध्यभागः पर्यन्तभागश्च भवति, एतद्भागत्रयात्परं नास्ति दण्डसद्भावः, एवं जीवस्याप्यादि - बाल्यावस्था, मध्यम् - युवावस्था, अवसानम् - जरावस्थेति भागत्रयमात्रव्यवस्थितता वर्तते। अल्पायुषस्तु तदायुर-नुसारेणैव भागत्रयव्यवस्थितिरिति न तेनानुपपत्तिः। तदेतदवस्थात्रयात् प्राक् पश्चाद्वा नास्त्येव जीव इत्युपनयः। एतदालम्बनेन च समुदयमात्राभिधानानि भूतसमुदयमात्र आत्मा इति प्रतिपादनानि कुरुते, यथा - पिब खाद च जातशोभने, यदतीतं वरगात्रि तन्न ते। न हि भीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरम् - इति । समुदय इति पृथिव्यादिभूतसमूहः, यदुक्तम्अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः। चतुर्थ्यः खलु भूतेभ्यश्चैतन्यमुपजायते - इति । एवं च नास्ति शरीरात् परम् - पृथक्, जीवः - अन्वय्यात्मद्रव्यम्, इति उक्तप्रकारेण भवगतिव्युच्छेदं वदति - परलोकिनोऽभावात् परलोकाभाव इति प्रतिपादयति, सोऽयं दण्डोत्कटः। द्वितीयमाह -
से किं तं रज्जुक्कले ? रज्जुक्कले णामं जे णं रज्जुदिटुंतेणं समुदयमेत्तपण्णवणाए पंचमहब्भूतखंधमेत्ताभिधाणाई संसारसंसतिवोच्छेदं वदति, से तं रज्जुक्कले २।२०-३॥
अथ किं तद् रज्जूत्कटः ? इत्यत्रोत्तरः - रज्जूत्कटो नाम १. पडदर्शनसमुच्चये ।।८२ ।। २. सर्वदर्शनसङ्ग्रहे । पृ.७।। ३. ख-ज-थ-न- भगवति । ४. बृहस्पतिसूत्रे ।
Ashopnisad 2.p65
2nd Proof