________________
षष्ठं परिशिष्टम् ॥ श्रीजयसिंहसूरिविरचिता
वस्तुपालतेजःपालप्रशस्तिः ॥ श्रेयः श्रीमुनिसुव्रतः स तनुतां यो मन्दरागस्तले, तन्वानः कमठाधिनाथममृतोद्धारकैधौरेयकः । निर्मथ्यैनमधर्मकर्मलहरीपूरपारं भवाकूपारं पुरुषोत्तमाय न तमां दत्ते स्म कस्मै श्रियम् ? ॥१॥ यस्मै रश्मिभरो गभीरिमगुणक्रान्तेन कल्लोलिनीकान्तेनाञ्जनपुञ्जमञ्जिमजयी शङ्के स्वकीयोऽर्पितः । यस्येव क्रमसेवनाय च मुदा मुक्तोऽङ्गभूः कच्छपो, लेभे लाञ्छनतां स यच्छतु सतां श्रीसुव्रतो निर्वृतिम् ॥२॥ आनन्दाय सुदर्शनाऽस्तु जगतां यस्या मुखेनाग्रतो, नम्राया मुनिसुव्रतक्रमनखादर्शप्रतिच्छन्दिना । आत्मद्वादशतां वहन्नहरहर्देवो हिमांशुर्महाकल्पानल्पपतङ्गपाटवतिरस्कारे चकारोद्यमम् ॥३॥ रक्षादक्षो दिवि दिविषदां कोऽपि सन्ध्यासमाधि, ध्यातुर्धातुश्चुलुकजलतः शौर्यराशिः पुराऽऽसीत् । प्रेवत्खड्गप्रतिमितितया सम्मुखीनो बभूव, भूसंरम्भत्रसदसुहृदो यस्य युद्धे य एव ॥४॥ वंशो विश्वत्रितयविदितः पर्वणां वेश्म तस्माच्चौलुक्याख्यः समजनि समुन्मीलदौन्नत्यलीलः ।
20
१ वंशे गा० ॥
D:\sukarti.pm5\3rd proof