________________
प्रथमं परिशिष्टम् ]
[१७ चण्डप्रसाद इति तस्य सुतस्ततोऽभूद् , यत्कीर्तिभिर्धवलितऽम्बरभित्तिभागे। लीला ललौ लिपिरथस्य रथाङ्गबन्धोः, क्रीडारथः प्रकटमेकरथाङ्गशोभी ।।१००।। समजनि जिनसेवानित्यहेवाकवृत्तिः, प्रगुणगुणगणश्रीस्तस्य कान्ता जयश्रीः । जगति घनतमोभिः कश्मले मानसान्तः, किल विलसति यस्याः शुद्धहंसो विवेकः ॥१०१।। माधुर्यधुर्यमधुलोभगुणैकशोभनिष्कम्पसम्पदलिनीनलिनीवनश्रीः । सूरस्ततस्तनुभवोऽनुभवोपभुक्तभाग्यप्रभावविभवो नयभूर्बभूव ॥१०२॥ 10 स श्रीमानुदयाचलोज्ज्वलरुचिमैत्र्यं दधानो जने, शूरः क्रूरतमःसमुच्चयभिदाशूरः कथं वर्ण्यते ? । अन्योन्यव्यतिषङ्गसङ्गतरुचि व्योमच्छले पल्वले, तेजःकीर्तिमिषेण चक्रमिथुनं संयोजयामास यः ॥१०३।। भ्राता वातायन इव धियां तस्य नि:सीमकीर्तिस्तोमः सोमः समजनि जनालोकनीयः कनीयान् । देवो देवेष्विव जिनपतिर्मानसे मानसेकाद् , यस्यावश्यं नृपतिषु पतिः सिद्धराजो रराज ॥१०४।। विश्वानन्दकरः सदा गुरुरुचिर्जीमूतपूतोन्नतिः, सोमः कोऽपि पवित्रचित्रविकसद्देवेशधर्मोन्नतिः । चक्रे मार्गणपाणिशुक्तिकुहरे यः स्वातिवृष्टिव्रजैमुक्तैमौक्तिकनिर्मलं शुचि यशो दिक्कामिनीभूषणम् ॥१०५।। एतस्य विकसद्धर्मारामस्याजनि वल्लभा ।
सीताऽऽभूतनयाऽप्येषा, न कुशीलवसन्मतिः ॥१०६।। १. उत्तरार्धमिदं उदयप्रभीयवस्तुपालस्तुतौ सप्तविंशतितमपद्येऽपि दृश्यते ॥ २. "वृष्टिं मुहुः, कृत्वा मौक्तिकनिर्मलं निजयशो दिक्कामिनीमण्डनम् उदयप्रभीयवस्तुपालस्तुतौ ॥ ३. °वलन्म° मुद्रिते ॥
D:\sukarti.pm5\3rd proof