________________
यह वसन्तविलास का है
परिशिष्टम् श्रीवस्तुपालप्रबन्धः
(राजशेखरसूरिकृतप्रबन्धकोशान्तर्गतः) श्रीवस्तुपालतेज:पालौ मन्त्रीश्वरश्वरावुभा आस्ताम् ।
यौ भ्रातरौ प्रसिद्धौ कीर्तनसङ्ख्यां तयोबूंमः ॥१॥ पूर्वं गूर्जरधरित्रीमण्डनायां मण्डलीमहानगर्यां श्रीवस्तुपालतेज:पालाद्या वसन्ति स्म । अन्यदा श्रीमत्पत्तनवास्तव्याप्राग्वाटान्वयठक्कुरश्रीचण्डप्रसादाङ्गजमन्त्रिश्रीसोमकुलावतंसठक्कुर श्रीआसाराजनन्दनौ श्रीकुमारदेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपालतेजःपालौ शत्रुञ्जयगिरिनारादितीर्थयात्रायां प्रस्थितौ । हडालाग्रामं गत्त्वा स्वां भूति चिन्तयतस्तावल्लक्षत्रयं सर्वस्वं जातम् । ततः सुराष्ट्रास्वस्वास्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महीस्थलतलं खानयामासतुः । तयोः खानयतोः कस्याऽपि प्राक्तनः कनकपूर्णः शौल्क: कलशो निरगात् । अथ तमादाय श्रीवस्तुपालस्तेजःपालजायाऽनुपमदेवीं मान्यतयाऽपृच्छत् क्वैतन्निधीयते । तयोक्तं गिरिशिखरे एतदुच्चैः स्थाप्यते, यथा प्रस्तुतनिधिवन्नान्यसाद्भवति । तच्छ्रुत्वा श्रीवस्तुपालस्तद्र्व्यं श्रीशत्रुञ्जयोज्जयन्तादावव्ययत् । कृतयात्रो व्यावृत्तः धवलकपुरमगात् । अत्रान्तरे महणदेवी नाम कन्यकुब्जेशसुता जनकात्प्रसन्नाद्गूर्जरधरां कञ्चलिकापदे लब्ध्वा चिरं भुक्त्वा कालेन मृता, तस्यैव गूर्जरदेशस्याधिष्ठात्री महद्धिका व्यन्तरी जाता । सा धवलक्कके शय्यायां सुखविश्रान्तं राणकं वीरधवलं प्रत्यक्षीभूय जगाद । राणक । इयं गूर्जरधरा वनराजप्रभृतिभिनरेन्द्रैः सप्तभिः चापोत्कटवंश्यैः षण्णवत्यधिकं शतं वर्षाणां भुक्ता । तदनु मूलराजचामुण्डराजवल्लभराजदुर्लभराजभीमकर्णजयसिंहदेवकुमारपालाजयपालदेवलघुभीमार्णोराजैश्चुलुक्यैः सनाथीकृता । सम्प्रति युवां पितापुत्रौ लवणप्रसादवीरधवलौ स्तः । इयं गूर्जरधरा कालवशादन्यायपरैः पापैः स्वाम्यभावात् मत्स्यन्यायेन कदीमानाऽऽस्ते म्लेच्छैरिव गौः । यदि युवां वस्तुपालतेजःपालौ मन्त्रिणौ कुर्वाथे तदा राज्ञः प्रतापधर्मवृद्धिर्भधुदिव सहसाऽदृश्या बभूव ।
राणकवीरधवलः पद्मासनस्थः शय्योपविष्टश्चिन्तयति । अहो देव्युपदेशः ! । साक्षात्कर्त्तव्यमेतत् तन्मन्त्रिद्वयं यद्देव्योक्तम् । यतः
दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावली जलधयो जनयन्ति किन्तु संस्कारमत्र मणिकारगणः करोति ॥२॥
D:\sukar-p.pm5\2nd proof