________________
10
१२४]
[सुरथोत्सवकाव्यगतवस्तुपालवंशवर्णनम् दृप्तः सोऽपि संपादलक्षनृपतिः पादानतिं शिक्षितः, श्रीसिद्धक्षितिपेन सैष विभवः सर्वोऽपि यस्याऽऽशिषाम् ॥२२।। कुशोपशोभितैर्यागैस्तडागैश्च पर:शतै । दृष्टं पूर्तं च यश्चक्रे, चक्रवर्तिपुरोहितः ॥२३॥ ऋजुरोहितभृत्पुरोहितत्वस्पृहयेव त्रिदिवं गतस्य तस्य । तनुभूर्मनुभूपतिप्रणीतस्मृतिसर्वस्वमवाप सर्वदेवः ॥२४॥ मध्वरेळधित साधु सपर्यामध्वरेषु जयति स्म सुरेशम् । मानवानविदितापरयाञ्चो, मानवानकृत चैष कृतार्थन् ॥२५॥ अर्चिषामयनमीयुषि तत्र, क्षत्रसत्तमनमस्करणीये । अध्यगामि विधिरामिगनाम्ना, वैदिकस्तदनु तत्तनुजेन ॥२६॥ सत्कर्मनिर्माणरतेरमुष्य, व्रीडानिदानं द्वयमेतदासीत् । स्ववर्णनाकर्णनमुत्तमेभ्यः, संसारकारान्तरवस्थितिश्च ॥२७॥ ज्येष्ठः श्रेष्ठतमः समस्तविदुषां सर्वदेवाह्वयः, श्रेयःसम्पदपास्तदुस्तरतमाः श्रीमान् कुमारोऽनुजः । मुञ्जोऽथ द्विजकुञ्जरस्तदनुजो न्यायाजडेनाहडश्चत्वारस्तनयास्ततः समभवन् वेदा इव ब्रह्मणः ॥२८॥ कुमारपालस्य चुलुक्यभर्तुरङ्गानि गङ्गासलिले निधाय । श्रीसर्वदेवेन गयाप्रयागविप्राः प्रदानेन कृताः कृतार्थाः ॥२९।। स्थाने स्थाने तडागानि, शिवपूजा दिने दिने । विप्रे विप्रे च सत्कारः, श्लाघा यस्य गृहे गृहे ॥३०॥ राहौ गृहीतोष्णकरे कुमारः, कुमारपालस्य सुतेन राज्ञा ।
कृतोपरोधोऽपि परं पुरोधाः, प्रत्यग्रहीत् तस्य न रत्नराशिम् ॥३१॥ १. आनलदेवः ॥ २. श्रीसिद्धराजराज्यम् वि० सं० ११५०-११९९ ॥ ३. जलं, दर्भश्च ।। ४. बृहस्पतिः ॥ ५. विष्णोः ॥ ६. अचिमार्गं गतवति ।। ७. अग्निहोत्रादिः ।। ८. अस्य सिद्धराजपुरोहितस्य सर्वदेवस्य जीवनसमयः सिद्धराजराज्यसमय एव ॥ ९. कुमारपालराज्यम् वि० सं० ११९९-१२३० ॥ १०. अस्य कुमारपालपुरोहितस्य कुमारस्य सत्तासमयः कुमारपालराज्ये ॥ ११. अजयपालेन ॥
15
20
D:\sukarti.pm5\3rd proof