________________
१२२]
[सुरथोत्सवकाव्यगतवस्तुपालवंशवर्णनम् येषामशेषाधिपतिः प्रसन्नः, सन्नद्धपाणिः प्र(फ)णिकङ्कणेन । त एव सम्मभूतिमिहाश्नुवन्ति, [कुले] गुलेचा(वा)भिधया प्रसिद्ध ॥६॥ श्रीसोलशर्मा विमले कुलेऽत्र, जन्म द्विजन्मप्रवर: प्रपेदे । यः स्वर्गिणः सोमरसेन यागे, पितूंश्च पिण्डैरपृणत् प्रयागे ॥७॥ सोलः सलीलमवनीमवतामसौ वः, सौवस्तिकोऽस्त्विति वरं स्मरता स्मरारेः । श्रीगुर्जरक्षितिभुजा किल मूलराज-देवेन दूरमुपरुध्य पुरो दधे यः ॥८॥ यथा प्रतिष्ठां महतीं वसिष्ठस्तिग्मांशुवंशे भगवानवाप । निजेन सौवस्तिकतागुणेन, चौलुक्यभूपालकुले तथाऽसौ ॥९॥ विधिवद् वाजपेयं यः, कलिकालेऽप्यकल्पयत् । कियती वा जपेयं तच्चरिताद्भुतसंहिताम् ? ॥१०॥ ऋग्वेदवेदी च श(कृ)तक्रतुश्च, दत्तान्नदानश्च जितेन्द्रियश्च । तिरोहिते तत्र पुरोहितेन्द्रे, तदङ्गजन्माऽजनि लल्लशर्मा ॥११॥ यः करोति स्म चामुण्डराजाख्यं नृपमाशिषा । हेतिप्रतापसम्पन्नं, हविषा च हविर्भुजम् ॥१२॥ श्रीर्मुञ्जनामा तनुजस्तदीयः, स्वयं स्वयम्भूरिव भूतलेऽभूत् । बाह्मण्यलाभाय तथाहि सद्भिरभाजि मौञ्जी रशनेव वृत्तिः ॥१३॥ सद्वंशजातेन गुणान्वितेन, शरासनेनेव पुरोहितेन । एतेन मेने भुवने न किञ्चिन्न दुर्लभं दुर्लभराजदेवः ॥१४।।
15
१. ईश्वरः ॥ २. 'प्नुव' ख ॥ ३. 'गुलेवा' इति स्थानाचारेण गोत्रस्यावठङ्कनाम प्रतीयते, परं च डॉक्टर-रामकृष्ण-गोपाल-भाण्डारकरमहाशयैः १८८३-८४ वर्षीय 'रिपोर्ट' पुस्तके 'गलेचा' इत्येव पाठ आश्रितः ॥ ४. अस्य मूलराजपुरोहितस्य सोलस्य सत्तासमयो मूलराजराज्यसमय एव ॥ ५. पुरोहितः ॥ ६. अयं मूलराजमहाराजः वि० सं० ९९३-१०५३ वर्षेषु राज्यमकार्षीत् , इति Indian Antiquary Vol. XI. P. 219 ।। ७. अस्य चामुण्डराजपुरोहितस्य लल्लशर्मणः सत्तासमयश्चामुण्डराजराज्यसमय एव ॥ ८. चामुण्डराजराज्यम्-वि० सं० १०५३-१०० ॥ ९. आयुधम् , दीप्तिश्च ॥ १०. पौरुषम् , सन्तापश्च ।। ११. अस्य दुर्लभराजपुरोहितस्य श्रीमुञ्ज नाम्नः सत्तासमयो दुर्लभराजराज्यसमय एव ।। १२. मौञ्जी वृत्तिरिति मुञ्जवद्वर्तमानानां ब्राह्मण्यं भवतीत्यर्थः । एतेन मुञ्जस्य सदाचारत्वमुक्तं भवतीत्यर्थः । अथ च मौञ्जी मेखला शरमयी रशना ब्राह्मण्यलाभाय सद्भिर्बध्यते ॥ १३. दुर्लभराजराज्यम्-वि० सं० १०६६-१०७८ ।।
D:\sukarti.pm5\3rd proof