________________
5
10
दशमं परिशिष्टम् ]
[११९ तत्पट्टे प्रथमः शमिप्रभुरभूदानन्दसूरिः परः, सञ्जज्ञेऽमरचन्द्रसूरिरखिलनूचानचूडामणिः । शश्वद् यस्य सरस्वतीप्रसरणे सिद्धेशितुः संसदि, प्राज्ञैश्चेतसि वेतसीतरुरसावाचार्यकं कार्यते ॥६॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूस्तत्पदे, पूज्यः श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः, सन्तुष्टैः कलिकालगौतम इति ख्यातिवितेने गुणैः ।।७।। गुरुः श्रीहरिभद्रोऽयं, लेभेऽधिकवयःस्थितिम् । मोहद्रोहाय चारित्रनृपनासीरवीरताम् ॥८॥ तत्पदे विजयसेनसूरयः, पूरयन्ति कृतिनां मनोरथान् । तद्गवी वृषमसूत नूतना, कामधेनुरिव सर्वकामदम् ॥९॥ गर्वात् पूर्वमनादरैरवहितैः पश्चात् ततो विस्मितैः, प्रस्विन्नैरनुविस्मृतात्मभिरथो वादेऽनुवादे क्षणात् । भाग्यैर्मानिमनीषिणां परिणता पुंस्त्वेन वागेष, इत्याक्षिप्तैरथ सेव्यतेऽथ सहसा यः सादरं वादिभिः ॥१०॥ यस्योपदेशममृतोपमितं निपीय, श्रीवस्तुपालसचिवेश्वर-तेजपालौ । सङ्घाधिपत्यमसमं जिनतीर्थतेज:संवर्धनाज्जितशतक्रतु चक्रतुस्तौ ॥११॥ श्रीमद्विजयसेनस्य, सौमनस्यं नमस्यत । यद्वासिता धृताः कैर्न, गुणाः शिष्याश्च मूर्धसु ? ॥१२॥ शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित्यवानुद्यत्तर्कवितर्ककर्कशमनाः सिद्धान्तशुद्धातुरः । श्रीधर्माभ्युदये कविः प्रविलसद्दुर्वादिगोत्रे पविस्तामेतामुदयप्रभाख्यगणभृद् वृत्तिं व्यधात् कर्णिकाम् ॥१३॥
20
१. पद्यमिदं धर्माभ्युदयमहाकाव्यप्रथमसर्गे नवमपद्यतयाऽपि वर्त्तते ॥ २. पद्यस्यास्य पूर्वार्धं नरेन्द्रप्रभीयवस्तुपालप्रशस्तिगत १०१पद्यपूर्वार्धसमम् ।।
D:\sukarti.pm5\3rd proof